संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ६१

स्वर्गखण्डः - अध्यायः ६१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
एवमुक्ता पुरा विप्रा व्यासेनामिततेजसा
एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः ॥१॥
समाश्वास्य मुनीन्सर्वान्जगाम च यथागतम्
भवद्भ्यस्तु मया प्रोक्तं वर्णाश्रमविधानकम् ॥२॥
एवं कृत्वा प्रियो विष्णोर्भवत्येव न चान्यथा
रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः ॥३॥
ये चात्र कथिता धर्मा वर्णाश्रमनिबंधनाः
हरिभक्तिकलांशांश समाना न हि ते द्विजाः ॥४॥
पुंसामेकेह वै साध्या हरिभक्तिः कलौ युगे
युगांतरेण धर्मा हि सेवितव्या नरेण हि ॥५॥
कलौ नारायणं देवं यजते यः स धर्म्मभाक्
दामोदरं हृषीकेशं पुरुहूतं सनातनम् ॥६॥
हृदि कृत्वा परं शांतं जितमेव जगत्त्रयम्
कलिकालोरगादंशात्किल्बिषात्कालकूटतः ॥७॥
हरिभक्तिसुधां पीत्वा उल्लंघ्यो भवति द्विजः
किं जपैः श्रीहरेर्नाम गृहीतं यदि मानुषैः ॥८॥
किं स्नानैर्विष्णुपादांबु मस्तके येन धार्यते
किं यज्ञेन हरेः पादपद्मं येन धृतं हृदि ॥९॥
किं दानेन हरेः कर्म सभायां वै प्रकाशितम्
हरेर्गुणगणान्श्रुत्वा यः प्रहृष्येत्पुनः पुनः ॥१०॥
समाधिना प्रहृष्टस्य सा गतिः कृष्णचेतसः
तत्र विघ्नकराः प्रोक्ताः पाखंडालापपेशलाः ॥११॥
नार्यस्तत्संगिनश्चापि हरिभक्तिविघातकाः
नारीणां नयनादेशः सुराणामपि दुर्जयः ॥१२॥
स येन विजितो लोके हरिभक्तः स उच्यते
माद्यंति मुनयोप्यत्र नारीचरितलोलुपाः ॥१३॥
हरिभक्तिः कुतः पुंसां नारीभक्तिजुषां द्विजाः
राक्षस्यः कामिनीवेषाश्चरंति जगति द्विजाः
नराणां बुद्धिकवलं कुर्वंति सततं हिताः ॥१४॥
तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते
तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी ॥१५॥
तावज्जपस्तपस्तावत्तावतीर्थनिषेवणम्
तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः ॥१६॥
तावत्प्रबोधो भवति विवेकस्तावदेव हि
तावत्सतां संगरुचिस्तावत्पौराणलालसा ॥१७॥
यावत्सीमंतिनी लोलनयनांदोलनं नहि
जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम् ॥१८॥
तत्र ये हरिपादाब्जमधुलेशप्रसादिताः
तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भवेत् ॥१९॥
जन्मजन्म हृषीकेश सेवनं यैः कृतं द्विजाः
द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि ॥२०॥
नारीणां किल किं नाम सौंदर्य्यं परिचक्षते
भूषणानां च वस्त्राणां चाकचक्यं तदुच्यते ॥२१॥
स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम्
पूयमूत्रपुरीषासृक्त्वङ्मेदोस्थिवसान्वितम् ॥२२॥
कलेवरं हि तन्नाम कुतः सौंदर्य्यमत्र हि
तदेवं पृथगाचिंत्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् ॥२३॥
तैः संहितं शंरीरं हि दृश्यते सुंदरं जनैः
अहोतिदुर्दशा नॄणां दुर्दैव घटिता द्विजाः ॥२४॥
कुचावृतेंगे पुरुषो नारी बुद्ध्वा प्रवर्त्तते
का नारी वा पुमान्को वा विचारे सति किंचन ॥२५॥
तस्मात्सर्वात्मना साधुर्नारीसंगं विवर्जयेत्
को नाम नारीमासाद्य सिद्धिं प्राप्नोति भूतले ॥२६॥
कामिनी कामिनीसंगि संगमित्यपि संत्यजेत्
तत्संगाद्रौरवमिति साक्षादेव प्रतीयते ॥२७॥
अज्ञानाल्लोलुपा लोकास्तत्र दैवेन वंचिताः
साक्षान्नरककुंडेस्मिन्नारीयोनौ पचेन्नरः ॥२८॥
यत एवागतः पृथ्व्यां तस्मिन्नेव पुना रमेत्
यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम् ॥२९॥
तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत्
तत्रातिकष्टं लोकेस्मिन्नहो दैवविडंबना ॥३०॥
पुनः पुना रमेत्तत्र अहो निस्त्रपता नृणाम्
तस्माद्विचारयेद्धीमान्नारीदोषगणान्बहून् ॥३१॥
मैथुनाद्बलहानिः स्यान्निद्राति तरुणायते
निद्रयापहृतज्ञानः स्वल्पायुर्जायते नरः ॥३२॥
तस्मात्प्रयत्नतो धीमान्नारीं मृत्युमिवात्मनः
पश्येद्गोविंदपादाब्जे मनो वै रमयेद्बुधः ॥३३॥
इहामुत्र सुखं तद्धि गोविंदपदसेवनम्
विहाय को महामूढो नारीपादं हि सेवते ॥३४॥
जनार्द्दनांघ्रिसेवा हि ह्यपुनर्भवदायिनी
नारीणां योनिसेवा हि योनिसंकटकारिणी ॥३५॥
पुनःपुनः पतेद्योनौ यंत्रनिष्पाचितो यथा
पुनस्तामेवाभिलषेद्विद्यादस्य विडंबनम् ॥३६॥
ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः
गोविंदे धेहि हृदयं न योनौ यातनाजुषि ॥३७॥
नारीसंगं परित्यज्य यश्चापि परिवर्त्तते
पदेपदेश्वमेधस्य फलमाप्नोति मानवः ॥३८॥
कुलांगना दैवयोगादूढा यदि नृणां सती
पुत्रमुत्पाद्य यस्तत्र तत्संगं परिवर्जयेत् ॥३९॥
तस्य तुष्टो जगन्नाथो भवत्येव न संशयः
नारीसंगो हि धर्मज्ञैरसत्संगः प्रकीर्त्यते ॥४०॥
तस्मिन्सति हरौ भक्तिः सुदृढा नैव जायते
सर्वसंगं परित्यज्य हरौ भक्तिं समाचरेत् ॥४१॥
हरिभक्तिश्च लोकेत्र दुर्ल्लभा हि मता मम
हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः ॥४२॥
तत्तदेवाचरेत्कर्म हरिः प्रीणाति येन हि
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥४३॥
हरौ भक्तिं विना नॄणां वृथा जन्म प्रकीर्तितम्
ब्रह्मेशादि सुरा यस्य यजंते प्रीतिहेतवे ॥४४॥
नारायणमनाव्यक्तं न तं सेवेत को जनः
तस्य माता महाभागा पिता तस्य महाकृती ॥४५॥
जनार्द्दनपदद्वंद्वं हृदये येन धार्यते
जनार्दनजगद्वंद्य शरणागतवत्सल ॥४६॥
इतीरयंति ये मर्त्या न तेषां निरये गतिः
ब्राह्मणा हि विशेषेण प्रत्यक्षं हरिरूपिणः ॥४७॥
पूजयेयुर्यथायोगं हरिस्तेषां प्रसीदति
विष्णुर्ब्राह्मणरूपेण विचरेत्पृथिवीमिमाम् ॥४८॥
ब्राह्मणेन विना कर्म्म सिद्धिं प्राप्नोति नैव हि
द्विजपादांबुभक्त्या यैः पीत्वा शिरसि चार्पितम् ॥४९॥
तर्पिता पितरस्तेन आत्मापि किल तारितः
ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम् ॥५०॥
साक्षात्कृष्णमुखे दत्तं तद्वै भुंक्ते हरिः स्वयम्
अहोतिदुर्ल्लभा लोका प्रत्यक्षे केशवे द्विजे ॥५१॥
प्रतिमादिषु सेवंते तदभावे हि तत्क्रिया
ब्राह्मणानामधिष्ठानात्पृथ्वी धन्येति गीयते ॥५२॥
तेषां पाणौ च यद्दत्तं हरिपाणौ तदर्पितम्
तेभ्यः कृतान्नमस्कारात्तिरस्कारो हि पाप्मताम् ॥५३॥
मुच्यते ब्रह्महत्यादि पापेभ्यो विप्रवंदनात्
तस्मात्सतां समाराध्यो ब्राह्मणो विष्णुबुद्धितः ॥५४॥
क्षुधितस्य द्विजस्यास्ये यत्किंचिद्दीयते यदि
प्रेत्य पीपूषधाराभिः सिंचते कल्पकोटिकम् ॥५५॥
द्विजतुंडं महाक्षेत्रमनूषरमकंटकम्
तत्र चेदुप्यते किंचित्कोटिकोटिफलं लभेत् ॥५६॥
सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते
नानासुमिष्टमन्नं यो ददाति द्विजतुष्टये ॥५७॥
तस्य लोका महाभोगाः कोटिकल्पांतमुक्तिदाः
ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम् ॥५८॥
पुराणं शृणुयान्नित्यं महापापदवानलम्
पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते ॥५९॥
यस्यैकपादश्रवणाद्धरिरेव प्रसीदति
यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः ॥६०॥
सर्वेषां जगतामेव हरिरालोकहेतवे
तथैवांतःप्रकाशाय पुराणावयवो हरिः ॥६१॥
विचरेदिह भूतेषु पुराणं पावनं परम्
तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः ॥६२॥
श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणम्
विष्णुभक्तेन शांतेन श्रोतव्यमपि दुर्लभम् ॥६३॥
पुराणाख्यानममलममलीकरणं परम्
यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा ॥६४॥
पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत्
पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम् ॥६५॥
तस्मात्कृते पुराणे हि श्रुते विष्णुर्भवेदिति
साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम् ॥६६॥
एतयोः संगमासाद्य हरिरेव भेवन्नरः
तथा गंगांबुसेकेन नाशयेत्किल्बिषं स्वकम् ॥६७॥
केशवो द्रवरूपेण पापात्तारयते महीम्
वैष्णवो विष्णुभजनस्याकांक्षी यदि वर्तते ॥६८॥
गंगांबुसेकममलममलीकरणं चरेत्
विष्णुभक्तिप्रदा देवी गंगा भुवि च गीयते ॥६९॥
विष्णुरूपा हि सा गंगा लोकविस्तारकारिणी ॥७०॥
ब्राह्मणेषु पुराणेषु गंगायां गोषु पिप्पले
नारायणधिया पुंभिर्भक्तिः कार्या ह्यहैतुकी ॥७१॥
प्रत्यक्षविष्णुरूपा हि तत्वज्ञैर्निश्चिता अमी
तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा ॥७२॥
विष्णौ भक्तिं विना नॄणां निष्फलं जन्म उच्यते
कलिकालपयोराशिं पापग्राहसमाकुलम् ॥७३॥
विषयामज्जनावर्तं दुर्बोधफेनिलं परम्
महादुष्टजनव्याल महाभीमं भयानकम् ॥७४॥
दुस्तरं च तरंत्येव हरिभक्तितरि स्थिताः
तस्माद्यतेत वै लोको विष्णुभक्तिप्रसाधने ॥७५॥
किं सुखं लभते जंतुरसद्वार्तावधारणे
हरेरद्भुतलीलस्य लीलाख्यानेन सज्जते ॥७६॥
तद्विचित्रकथालोके नानाविषयमिश्रिताः
श्रोतव्या यदि वै नॄणां विषये सज्जते मनः ॥७७॥
निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः
हेलया श्रवणाच्चापि तस्य तुष्टो भवेद्धरिः ॥७८॥
निष्क्रियोपि हृषीकेशो नानाकर्म चकार सः
शुश्रूषूणां हितार्थाय भक्तानां भक्तवत्सलः ॥७९॥
न लभ्यते कर्मणापि वाजपेयशतादिना
राजसूयायुतेनापि यथा भक्त्या स लभ्यते ॥८०॥
यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः
भवाब्धितरणे सारमाश्रयध्वं हरेः पदम् ॥८१॥
रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः
रौरवे हि किमात्मानमात्मना पातयिष्यथ ॥८२॥
विना गोविंदसौम्यांघ्रिसेवनं मा गमिष्यति
अनायासेन दुःखानां तरणं यदि वांछथ ॥८३॥
भजध्वं कृष्णचरणावपुनर्भवकारणे
कुत एवागतो मर्त्यः कुत एव पुनर्व्रजेत् ॥८४॥
एतद्विचार्य मतिमानाश्रयेद्धर्मसंग्रहम्
नानानरकसंपातादुत्थितो यदि पूरुषः ॥८५॥
स्थावरादि तनुं लब्ध्वा यदि भाग्यवशात्पुनः
मानुष्यं लभते तत्र गर्भवासोतिदुःखदः ॥८६॥
ततः कर्मवशाज्जंतुर्यदि वा जायते भुवि
बाल्यादिबहुदोषेण पीडितो भवति द्विजाः ॥८७॥
पुनर्यौवनमासाद्य दारिद्र्येण प्रपीड्यते
रोगेण गुरुणा वापि अनावृष्ट्यादिना तथा ॥८८॥
वार्द्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः
मनसश्चलनाद्व्याधेस्ततो मरणमाप्नुयात् ॥८९॥
न तस्मादधिकं दुःखं संसारेप्यनुभूयते
ततः कर्म्मवशाज्जंतुर्यमलोके प्रपीड्यते ॥९०॥
तत्रातियातनां भुक्त्वा पुनरेव प्रजायते
जायते म्रियते जंतु म्रियते जायते पुनः ॥९१॥
अनाराधित गोविंदचरणे त्वीदृशी दशा
अनायासेन मरणं विनायासेन जीवनम् ॥९२
अनाराधितगोविंदचरणस्य न जायते
धनं यदि भवेद्गेहे रक्षणात्तस्य किं फलम् ॥९३
यदासौ कृष्यते याम्यैर्दूतैः किं धनमन्वियात्
तस्माद्द्विजातिसत्कार्यं द्रविणं सर्वसौख्यदम् ॥९४॥
दानं स्वर्गस्य सोपानं दानं किल्बिषनाशनम्
गोविंदभक्तिभजनं महापुण्यविवर्द्धनम् ॥९५॥
बलं यदि भवेन्मर्त्ये न वृथा तद्व्ययं चरेत्
हरेरग्रे नृत्यगीतं कुर्यादेवमतंद्रितः ॥९६॥
यत्किंचिद्विद्यते पुंसां तच्च कृष्णे समर्पयेत्
कृष्णार्पितं कुशलदमन्यार्पितमसौख्यदम् ॥९७॥
चक्षुर्भ्यां श्रीहरेरेव प्रतिमादिनिरूपणम्
श्रोत्राभ्यां कलयेत्कृष्ण गुणनामान्यहर्निशम् ॥९८॥
जिह्वया हरिपादांबु स्वादितव्यं विचक्षणैः
घ्राणेनाघ्राय गोविंदपादाब्जतुलसीदलम् ॥९९॥
त्वचा स्पृष्ट्वा हरेर्भक्तं मनसाध्याय तत्पदम्
कृतार्थो जायते जंतुर्नात्र कार्या विचारणा ॥१००॥
तन्मना हि भवेत्प्राज्ञस्तथा स्यात्तद्गताशयः
तमेवांतेभ्येति लोको नात्र कार्या विचारणा ॥१०१॥
चेतसा चाप्यनुध्यातः स्वपदं यः प्रयच्छति
नारायणमनाद्यंतं न तं सेवेत को जनः ॥१०२॥
सतत नियतचित्तो विष्णुपादारविंदे वितरणमनुशक्ति प्रीतये तस्य कुर्यात्
नतिमतिरतिमस्यांघ्रिद्वये संविदध्यात्स हि खलु नरलोके पूज्यतामाप्नुयाच्च ॥१०३॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP