संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः ५३ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः ५३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५३ Translation - भाषांतर व्यास उवाच-एवं दंडादिभिर्युक्तः शौचाचारसमन्वितःआहूतोध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम् ॥१॥नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतःआस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥२॥प्रतिश्रवणसंभाषे शयानो न समाचरेत्आसीनो न च भुंजानो न तिष्ठेन्न पराङ्मुखः ॥३॥नीचैः शय्यासनं चास्य सर्वदा गुरुसन्निधौगुरोस्तु चक्षुर्विषयेन यथेष्टासनो भवेत् ॥४॥नोदाहरेदस्य नाम परोक्षमपि केवलम्न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥५॥गुरोर्यत्र परीवादो निंदा वापि प्रवर्ततेकर्णौ तत्र पिधातव्यौ गंतव्यं वा ततोऽन्यतः ॥६॥दूरस्थो नार्चयेदेनं न क्रुद्धो नांतिके स्त्रियःन चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ ॥७॥उदकुंभं कुशान्पुष्पं समिधोऽस्याहरेत्सदामार्जनं लेपनं नित्यमंगानां वै समाचरेत् ॥८॥नास्य निर्माल्यशयनं पादुकोपानहावपिआक्रामेदासनं चास्य च्छायादीन्वा कदाचन ॥९॥साधयेद्दंतकाष्ठादींल्लब्धं चास्मै निवेदयेत्अनापृच्छ्य न गंतव्यं भवेत्प्रियहिते रतः ॥१०॥न पादौ सारयेदस्य सन्निधाने कदाचनजृंभितं हसितं चैव कंठप्रावरणं तथा ॥११॥वर्जयेत्सन्निधौ नित्यमंगस्फोटनमेव चयथाकालमधीयीत यावन्न विमना गुरुः ॥१२॥आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितःआसने शयने याने नैव तिष्ठेत्कदाचन ॥१३॥धावंतमनुधावेत गच्छंतमनुगच्छतिगोश्वोष्ट्रयानप्रासादे तथाधोविष्टरेषु च ॥१४॥आसीत गुरुणा सार्द्धं शिलाफलक नौषु चजितेंद्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः ॥१५॥प्रयुंजीत सदा वाचं मधुरां हितकारिणीम्गंधमाल्यं रसं कल्पं शुक्तिं प्राणिविहिंसनम् ॥१६॥अभ्यंजनांजनोन्मर्द्दच्छत्रधारणमेव चकामं लोभं भयं निद्रां गीतवादित्रनर्तनम् ॥१७॥आतर्जनं परीवादं स्त्रीप्रेक्षालंभनं तथापरोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥१८॥उदकुंभं सुमनसो गोशकृन्मृत्तिका कुशान्आहरेद्यावदन्नानि भैक्ष्यं चाहरहश्चरेत् ॥१९॥घृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत्अनृत्यदर्शी सततं भवेद्गीतादि निस्पृहः ॥२०॥नादित्यं वै समीहेत नाचरेद्दंतधावनम्एकांतमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् ॥२१॥गुरूच्छिष्टं भेषजान्नं प्रयुंजीत न कामतःमलापकर्षणं स्नानं नाचरेद्धि कदाचन ॥२२॥न कुर्यान्मानसं विप्रो गुरोस्त्यागे कथंचनमोहाद्वा यदि वा लोभात्त्यक्त्वा तु पतितो भवेत् ॥२३॥लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वाआददीत यतो ज्ञानं तं न द्रुह्येत्कदाचन ॥२४॥गुरोरप्यवलिप्तस्य कार्याकार्यमजानतःउत्पथप्रतिपन्नस्य न मनुस्त्यागमब्रवीत् ॥२५॥गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्नत्वाभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ॥२६॥विद्यागुरुष्वेतदेवं नित्यावृत्तिषु योगिषुप्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च ॥२७॥श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत्गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबंधुषु ॥२८॥बालः संमानयेन्मान्याञ्छिष्टो वा यदि कर्म्मणिअध्यापयन्गुरोः सूनुं गुरुवन्मानमर्हति ॥२९॥उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजनःन कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥३०॥गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितःअसवर्णाश्च संपूज्याः प्रत्युत्थानाभिवादनैः ॥३१॥अभ्यंजनं स्नापनं च गात्रोत्सादनमेव चगुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥३२॥गुरुपत्नी तु युवती नाभिवाद्या तु पादयोःकुर्वीत वंदनं भूम्यामसावहमिति ब्रुवन् ॥३३॥विप्रोष्य पादग्रहणपूर्वकं चाभिवादनम्गुरुदारेषु कुर्वीत सतां धर्म्ममनुस्मरन् ॥३४॥मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसासंपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥३५॥भ्रातृभार्याश्च संग्राह्या सवर्णा हन्यहन्यपिविप्रोष्य तूपसंग्राह्या ज्ञातिसंबंधियोषितः ॥३६॥पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपिमातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥३७॥एवमाचारसंपन्नमात्मवंतमदांभिकम्वेदमध्यापयेद्धर्म्मं पुराणांगानि नित्यशः ॥३८॥संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन्हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥३९॥आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिःशक्तोन्नदोंबुदः साधुरध्याप्यादश धर्मतः ॥४०॥कृतकंठस्तथाऽद्रोहः मेधावी गुरुकृन्नरःआप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः ॥४१॥एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम्आचम्य संयतो नित्यमधीयीत उदङ्मुखः ॥४२॥उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम्अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽरमेत् ॥४३॥प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावकःप्राणायामैस्त्रिभिः पूतस्ततोंकारमर्हति ॥४४॥ब्राह्मणः प्रणवं कुर्यादंतेऽपि विधिवद्द्विजाःकुर्यादध्यापनं नित्यं सब्रह्मांजलिपूर्वतः ॥४५॥सर्वेषामेव भूतानां वेदश्चक्षुः सनातनःअधीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ॥४६॥अधीयीत ऋचो नित्यं क्षीराहुत्या सदेवताःप्रीणाति तर्पयन्कालं कामैर्हूताः सदैवताः ॥४७॥यजूंष्यधीते नियतं दध्ना प्रीणाति देवताःसामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥४८॥अथर्वांगिरसो नित्यं मध्वा प्रीणाति देवताःधर्मांगानि पुराणानि मांसैस्तर्पयतेसुरान् ॥४९॥प्रातश्च सायं प्रयतो नैत्यकं विधिमाश्रितःगायत्रीं समधीयीत गत्वारण्यं समाहितः ॥५०॥सहस्रपरमां देवीं शतमध्यां दशावराम्गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ॥५१॥गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुःएकतश्चतुरोवेदा गायत्रीं च तथैकतः ॥५२॥ॐकारमादितः कृत्वा व्याहृतीस्तदनंतरम्ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥५३॥पुराकल्पे समुत्पन्ना भूर्भुवः स्वः सनातनाःमहाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ॥५४॥प्रधानं पुरुषः कालो विष्णुब्रह्ममहेश्वराःसत्वंरजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥५५॥ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम्एष मंत्रो महायोगः सारात्सार उदाहृतः ॥५६॥योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम्विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥५७॥गायत्री वेदजननी गायत्री लोकपावनीगायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते ॥५८॥श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाःआषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥५९॥यत्सूर्ययाम्यगमनं मासान्विप्रोर्द्धपंचमान्अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥६०॥पुष्ये तुच्छंदसां कुर्याद्बहिरुत्सर्जनं द्विजःमासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥६१॥छदांसि च द्विजोऽभ्यस्येच्छुक्लपक्षे तु वै द्विजःवेदांगानि पुराणानि कृष्णपक्षेषु मानवः ॥६२॥इमान्नित्यमनध्यायानधीयानो विवर्जयेत्अध्यापनं च कुर्वाणोऽभ्यस्यन्नपि प्रयत्नतः ॥६३॥कर्णश्रवेऽनिले रात्रौ दिवापांसुसमूहनेविद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ॥६४॥अकालिकमनध्यायमेतेष्वाह प्रजापतिःएतानभ्युदिनान्विद्याद्यदा प्रादुष्कृताग्निषु ॥६५॥तदा विद्यादनध्यायमनृतौ चाभ्रदर्शनेनिर्घाते भूमिचलने ज्योतिषां चोपसर्जने ॥६६॥एतानकालिकान्विद्यादनध्यायानृतावपिप्रादुष्कृतेष्वग्निषु च विद्युत्स्तनितनिस्वने ॥६७॥सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवानित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ॥६८॥धर्मनैपुण्यकामानां पूतिगंधे च नित्यशःअंतः शवगतेग्रामे वृषलस्य च सन्निधौ ॥६९॥अनध्यायोरुद्यमाने समये जलदस्य चउदके चार्धरात्रे च विण्मूत्रं च विसर्जयन् ॥७०॥उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिंतयेत्प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य वेतनम् ॥७१॥त्र्यहं न कारयेद्ब्रह्म राज्ञो राहोश्च सूतकेयावदेकान्ननिष्ठा स्यात्स्नेहालोपश्च तिष्ठति ॥७२॥विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत्शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥७३॥नाधीयीतामिषं जग्ध्वा शूद्रश्राद्धान्नमेव चनीहारे बाणशब्दे च संध्ययोरुभयोरपि ॥७४॥अमावास्या चतुर्दश्योः पौर्णमास्यष्टमीषु चउपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ॥७५॥अष्टकासु अहोरात्रमृत्वंतासु च रात्रिषुमार्गशीर्षे तथा पौषे माघमासे तथैव च ॥७६॥तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेषु सूरिभिःश्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ॥७७॥कदाचिदपि नाध्येयं कोविदारकपित्थयोःसमानविद्ये च मृते तथा सब्रह्मचारिणि ॥७८॥आचार्ये संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम्छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः ॥७९॥हिंसंति राक्षसास्तेषु तस्मादेतान्विवर्जयेत्नैत्यकेनास्त्यनध्यायः संध्योपासनमेव च ॥८०॥उपाकर्म्मणि होमांते होममध्ये तथैव चएकामृचमथैकं वा यजुः सामानि वा पुनः ॥८१॥नाष्टकाद्यास्वधीयीत मारुते चाभिधावतिअनध्यायस्तु नांगेषु नेतिहासपुराणयोः ॥८२॥न धर्मशास्त्रेष्वन्येषु सर्वाण्येतानि वर्जयेत्एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः ॥८३॥ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम्योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः ॥८४॥स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिःन वेदपाठमात्रेण संतुष्टो वै भवेद्द्विजः ॥८५॥पाठमात्रावसानस्तु पंके गौरिव सीदतियोऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत् ॥८६॥स संमूढः शूद्रकल्पः पात्रतां न प्रपद्यतेयदित्वात्यंतिकं वासं कर्तुमिच्छति वै गुरौ ॥८७॥युक्तः परिचरेदेनमाशरीरविमोक्षणम्गत्वा वनं च विधिवज्जुहुयाज्जातवेदसम् ॥८८॥अधीयीत तथा नित्यं ब्रह्मनिष्ठः समाहितःसावित्रीं शतरुद्रीयं वेदांतांश्च विशेषतःअभ्यसेत्सततं युक्तो भिक्षाशनपरायणः ॥८९॥एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वःपुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः ॥९०॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनंनाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP