संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५८

स्वर्गखण्डः - अध्यायः ५८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः
वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव च ॥१॥
निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा
दृष्ट्वापत्यस्य वापत्यं जर्जरीकृतविग्रहः ॥२॥
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे
गत्वारण्यं नियमवांस्तपः कुर्यात्समाहितः ॥३॥
फलमूलानि पूतानि नित्यमाहारमाहरेत्
यदाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥४॥
पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान्
गृहादादाय चाश्नीयादष्टौ ग्रासान्समाहितः ॥५॥
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत्
स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः ॥६॥
अग्निहोत्रं च जुहुयात्पंचयज्ञान्समाचरेत्
उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥७॥
चीरवासा भवेन्नित्यं स्नायात्त्रिषवणं शुचिः
सर्वभूतानुकंपश्च प्रतिग्रहविवर्जितः ॥८॥
दर्शेन पौर्णमासेन यजेत नियतं द्विजः
ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत् ॥९॥
उत्तरायणं च क्रमशो दक्षिणायनमेव च
वासंतशारदैर्मेद्ध्यैरुत्पन्नैः स्वयमाहृतैः ॥१०॥
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक्
देवताभ्यः पितृभ्यश्च दत्त्वा मेध्यतरं हविः ॥११॥
शेषं समुपभुंजीत लवणं च स्वयंकृतम्
वर्ज्जयेन्मद्यमांसानि भौमानि कवकानि च ॥१२॥
भूस्तृणं शष्पकं चैव श्लेष्मातक फलानि च
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥१३॥
न ग्रामजातान्यार्तोपि पुष्पाणि च फलानि च
श्रावणेनैव विधिना वह्निं परिचरेत्सदा ॥१४॥
न द्रुह्येत्सर्वभूतानि निर्द्वंद्वो निर्भयो भवेत्
न नक्तं किंचिदश्नीयाद्रात्रौ ध्यानपरो भवेत् ॥१५॥
जितेंद्रियो जितक्रोधस्तत्त्वज्ञानविचिंतकः
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥१६॥
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत्
तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥१७॥
तत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः
न हि वेदेधिकारोस्य तद्वंशेप्येवमेव हि ॥१८॥
भूमौ शयीत सततं सावित्रीजप्यतत्परः
शरण्यः सर्वभूतानां सद्विभागपरः सदा ॥१९॥
परिवादं मृषावादं निद्रालस्ये च वर्जयेत्
एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् ॥२०॥
मृगैः सह चरेद्दांतस्तैः सहैव च संवसेत्
शिलायां शर्करायां वा शयीत सुसमाहितः ॥२१॥
सद्यः प्रक्षालको वा स्यान्माससंचयिकोपि वा
षण्मासनिचयो वापि समानिचय एव वा ॥२२॥
नक्तं चान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः
चतुर्थकालको वा स्यात्किं वाप्यष्टमकालिकः ॥२३॥
चांद्रायणविधानैर्वा शुक्लेकृष्णे च वर्जयेत्
पक्षेपक्षे समश्नीयाद्यवागूं क्वथितां सकृत् ॥२४॥
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा
स्वाभाविकैः स्वयंशीर्णैर्वैखानसमते स्थितः ॥२५॥
भूमौ वा परिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्
स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्य्यमुत्सृजेत् ॥२६॥
ग्रीष्मे पंचतपाश्च स्याद्वर्षास्वभ्रावकाशिकः
आर्द्रवासाश्च हेमंते क्रमशो वर्द्धयेत्तपः ॥२७॥
उपस्पृशेत्त्रिषवणं पितृदेवांश्च तर्पयेत्
एकपादेन तिष्ठेत मरीचिं वा पिबेत्सदा ॥२८॥
पंचाग्निधूमगो वा स्यादूष्मगः सोमपोपि वा
पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम् ॥२९॥
शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा
योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत्सदा ॥३०॥
अथर्वशिरसोध्येता वेदांताभ्यासतत्परः
यमान्सेवेत सततं नियमांश्चाप्यतंद्रितः ॥३१॥
अथ चाग्नीन्समारोप्य स्वात्मनि ध्यानतत्परः ॥३२॥
अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत्
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥३३॥
गृहमेधिषु चान्येषु द्विजेषु वनचारिषु
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान्वने वसन् ॥३४॥
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥३५॥
विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च
महाप्रस्थानिकं वासौ कुर्य्यादनशनं तथा
अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः ॥३६॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वानप्रस्थाश्रमाचारधर्मो
नामाष्टपंचाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP