संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः १४ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः १४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १४ Translation - भाषांतर नारद उवाच-नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषुमुनिभिस्तु महाभागैर्विभक्ता धर्मकांक्षिभिः ॥१॥यज्ञोपवीतमात्राणि प्रविभक्तानि पांडवतेषु स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते ॥२॥जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतम्तस्योत्पत्तिं कथयतः शृणु पांडवनंदन ॥३॥पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाःस्तुवंति ते महात्मानं देवदेवं महेश्वरम् ॥४॥स्तुवमानास्तु संप्राप्ता यत्र देवो महेश्वरःविज्ञापयंति देवेशं सेंद्राश्चैव मरुद्गणाःभयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो ॥५॥ईश्वर उवाच-स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताःकिं दुःखं कोऽनुसंतापः कुतो वा भयमागतम् ॥६॥कथयध्वं महाभागा एतदिच्छामि वेदितुम्एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः ॥७॥ऋषय ऊचुः-अपि घोरो महावीर्यो दानवो बलदर्पितःबाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ॥८॥गगने तु वसद्दिव्यं भ्रमते तस्य तेजसातस्माद्भीता विरूपाक्ष त्वामेव शरणं गताः ॥९॥त्रायस्व महतो दुःखाद्देवत्वं हि परा गतिःएवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥१०॥येन देवाः सुप्रसन्नाः सुखमेधंति शंकरपरां निर्वृतिमायांति तत्प्रभो कर्तुमर्हसि ॥११॥देव उवाच-एतत्सर्वं करिष्यामि मा विषादं करिष्यथअचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् ॥१२॥आश्वासयित्वा तान्सर्वान्नर्मदातटमास्थितःचिंतयामास सर्वेशस्तद्वधं प्रति पांडव ॥१३॥कथं केन प्रकारेण हंतव्यस्त्रिपुरो मयाएवं संचिंत्य भगवान्नारदं स्मरते तदास्मरणादेव संप्राप्तो नारदः समुपस्थितः ॥१४॥नारद उवाच-आज्ञापय महादेव किमर्थं संस्मृतो ह्यहम्किं कार्यं तु मया देव कर्तव्यं कथयस्व मे ॥१५॥ईश्वर उवाच-गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरम्बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु ॥१६॥भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाःतासां वै तेजसा विप्र भ्रमते त्रिपुरं दिवि ॥१७॥तत्र गत्वा तु विप्रेंद्र मंत्रमन्यं प्रचोदयदेवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ॥१८॥स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रतिशोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ॥१९॥शतयोजनविस्तीर्णं ततो द्विगुणमायतम्ततः पश्यति तत्रैव बाणं तु बलदर्पितम् ॥२०॥मालाकुंडलकेयूरैर्मुकुटेन विराजितम्हाररत्नैश्च संछन्नं चंद्रकांतिविभूषितम् ॥२१॥ललनास्तस्य रत्नाढ्याः नराः कनकमंडिताःउत्थितो नारदं दृष्ट्वा दानवेंद्रो महाबलः ॥२२॥बाण उवाच-स देवर्षिः स्वयं प्राप्तो मद्गृहं प्रति संप्रतिअर्घं पाद्यं यथान्यायं क्रियतां द्विजसत्तम ॥२३॥चिरात्समागतो विप्र स्थीयतामिदमासनम्एवं संभावयित्वा तु नारदं समुपस्थितम् ॥२४॥तस्य भार्या महादेवी अनौपम्या तु नामतः ॥२५॥अनौपम्योवाच-भगवन्मानुषे लोके देवास्तुष्यंति केन वैव्रतेन नियमेनापि दानेन तपसाथवा ॥२६॥नारद उवाच-तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगेससागरा नवद्वीपा दत्ता भवति मेदिनी ॥२७॥सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैःमोदते चाक्षयं कालं सुचिरं कृतशासनः ॥२८॥आम्रातककपित्थानि कदलीवनमेव चकदंब चंपकाशोका अनेक विविधद्रुमाः ॥२९॥अष्टमी च चतुर्थी च द्वादशी च तथा उभेसंक्रांतिर्विषुवं चैव दिनच्छिद्रमुखं तथा ॥३०॥पुण्यान्येतानि सर्वाणि उपवासंति याः स्त्रियःतासां तु धर्म्मयुक्तानां स्वर्गे वासो न संशयः ॥३१॥कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताःउपवासरता नार्यो नोपसर्पंति तापसाः ॥३२॥एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसिनारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ॥३३॥प्रसादं कुरु विप्रेंद्र दानं गृह्ण यथेप्सितम्सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥३४॥तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्ल्लभम्प्रतिगृह्ण द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ ॥३५॥नारद उवाच-अन्यस्मै दीयतां भद्रे क्षीणवृतिश्च यो द्विजःवयं तु शीलसंपन्ना भक्तिस्तु क्रियते मया ॥३६॥एवं तासां मनो हृत्वा सर्वासामुपदिश्य वाजगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः ॥३७॥अत्राकृष्टमनास्तास्तु अन्यत्रगतमानसाःपुरि छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ॥३८॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP