संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ३८

स्वर्गखण्डः - अध्यायः ३८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
वाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो
कथितानि समासेन तीर्थान्यन्यानि संशृणु ॥१॥
ततो गयां समासाद्य ब्रह्मचारी समाहितः
अश्वमेधमवाप्नोति गमनादेव भारत ॥२॥
यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥३॥
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥४॥
ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम्
पुंडरीकमवाप्नोति प्रभातमिव शर्वरी ॥५॥
सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः
यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥६॥
ततो गच्छेत राजेंद्र धेनुकं लोकविश्रुतम्
एकारात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥७॥
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम्
तत्र चिह्नं महाराज अद्यापि हि न संशयः ॥८॥
कपिला सहवत्सा वै पर्वते विचरत्युतः
सवत्सायाः पदान्यस्या दृश्यंतेऽद्यापि भारत ॥९॥
तेषूपस्पृश्य राजेंद्र पदेषु नृपसत्तम
यत्किंचिदशुभं पापं तत्प्रणश्यति भारत ॥१०॥
ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः
स्नायात्तु भस्मना तत्र संगम्य वृषभध्वजम् ॥११॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥१२॥
गच्छेत तत उद्यंतं पर्वतं गीतनादितम्
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥१३॥
तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः
उपास्ताहि भवेत्संध्या तेन द्वादशवार्षिकी ॥१४॥
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ
तत्राभिगम्य मुच्येत पुरुषो योनिसंकटात् ॥१५॥
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥१६॥
एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥१७॥
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप
अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् ॥१८॥
ततो गच्छेत राजेंद्र धर्मपृष्ठं समाहितः
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥१९॥
धर्म्मं तत्राभिसंगम्य वाजिमेधफलं लभेत्
ततो गच्छेत राजेंद्र ब्रह्मणस्तीर्थमुत्तमम् ॥२०॥
तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत ॥२१॥
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप
उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते ॥२२॥
यक्षिण्या नैत्यकं तत्र प्रागग्निपुरुषः शुचिः
यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया ॥२३॥
मणिनागं ततो गच्छेद्गोसहस्रफलं लभेत्
नैत्यकं भुंजते यस्तु मणिनागस्य मानवः ॥२४॥
दष्टस्याशीविषेणास्य न विषं क्रमते नृप
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥२५॥
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ॥२६॥
अभिगम्य श्रियं राजन्विंदते श्रियमुत्तमाम्
तत्रोदपानो धर्म्मज्ञ त्रिषु लोकेषु विश्रुतः ॥२७॥
तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात्
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः ॥२८॥
तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयात्
ततोऽविनाशनं गच्छेत्सर्वपापप्रमोचनम् ॥२९॥
वाजिमेधमवाप्नोति सोमलोकं च गच्छति
गंडकीं च समासाद्य सर्वतीर्थजलोद्भवाम् ॥३०॥
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति
ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् ॥३१॥
गुह्यकेषु महाभाग मोदते नात्र संशयः
कर्मदां तु समासाद्य नदीं सिद्धनिषेविताम् ॥३२॥
पुंडरीकमवाप्नोति सोमलोकं च गच्छति
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ॥३३॥
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति
अथ माहेश्वरीं धारां समासाद्य नराधिप ॥३४॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ॥३५॥
न दुर्गतिमवाप्नोति वाजपेयं च विंदति
अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः ॥३६॥
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ॥३७॥
कूर्मरूपेण राजेंद्र असुरेण दुरात्मना
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ॥३८॥
तत्राभिषेकं कुर्वीत तीर्थकोट्यां नराधिप
पुंडरीकमवाप्नोति विष्णुलोकं च गच्छति ॥३९॥
ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च
सदा सन्निहितो यत्र हरिर्वसति भारत ॥४०॥
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः
आदित्यावसवोरुद्रा जनार्दनमुपासते ॥४१॥
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः
अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ॥४२॥
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ॥४३॥
समुद्रास्तत्रचत्वारः कूपे सन्निहिताः सदा
तत्रोपस्पृश्य राजेंद्र न दुर्गतिमवाप्नुयात् ॥४४॥
अभिगम्य महादेवं वरदं विष्णुमव्ययम्
विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥४५॥
जातिस्मरं उपस्पृश्य शुचिः प्रयतमानसः
जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥४६॥
वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम्
ईप्सिताँल्लभते लोकानुपवासान्न संशयः ॥४७॥
ततस्तु वामनं गत्वा सर्वपापप्रणाशनम्
अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥४८॥
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम्
कौशिकीं तत्र सेवेत महापातकनाशिनीम् ॥४९॥
राजसूयस्य यज्ञस्य फलं प्राप्नोतिमानवः
ततो गच्छेत धर्मज्ञ चंपकारण्यमुत्तमम् ॥५०॥
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
अथ गोविंदमासाद्य तीर्थं परमसम्मतम् ॥५१॥
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत्
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ॥५२॥
मित्रावरुणयोर्लोकान्प्राप्नुयाद्भरतर्षभ
त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ॥५३॥
कन्यावसथमासाद्य नियतो नियताशनः (आवसथ्य)
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥५४॥
कन्यायां ये प्रयच्छंति दानमण्वपि भारत
तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥५५॥
निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम्
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥५६॥
ये तु दानं प्रयच्छंति निष्ठायाः संगमे नराः
ते यांति नरशार्दूल ब्रह्मलोकमनामयम् ॥५७॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥५८॥
देवकूटं समासाद्य देवर्षिगणसेवितम्
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥५९॥
ततो गच्छेत राजेंद्र कौशिकस्य मुनेर्ह्रदम्
तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः ॥६०॥
यत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥६१॥
सर्वतीर्थवरं चैव यो वसेत महाह्रदम्
न दुर्गतिमवाप्नोति विंद्याद्बहुसुवर्णकम् ॥६२॥
कुमारमभिगम्याथ वीराश्रमनिवासिनम्
अश्वमेधमवाप्नोति शक्रलोकं स गच्छति ॥६३॥
नंदिन्यां च समासाद्य कूपं त्रिदशसेवितम्
नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥६४॥
कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥६५॥
उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः
कुंभकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥६६॥
तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः ॥६७॥
सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः
सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ॥६८॥
ऋषभद्वीपमासाद्य सेव्य क्रौंचनिषूदनम्
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥६९॥
औद्यानकं महाराज तीर्थं मुनिनिषेवितम्
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥७०॥
ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥७१॥
ततश्चंपां समासाद्य भागीरथ्यां कृतोदकः
दंडार्पणं समासाद्य गोसहस्रफलं लभेत् ॥७२॥
लाविढिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम्
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥७३॥

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे गयादितीर्थमाहात्म्यकथनं नाम अष्टत्रिंशोऽध्यायः ॥३८॥0.

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP