संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः ४७ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः ४७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४७ Translation - भाषांतर मार्कंडेय उवाच-शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तुनैमिषं पुष्करं चैव गोतीर्थं सिंधुसागरम् ॥१॥कुरुक्षेत्रं गया चैव गंगासागरमेव चएते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥२॥दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरेप्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ॥३॥त्रीणि चाप्यग्निकुंडानि येषां मध्ये तु जाह्नवीप्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता ॥४॥तपनस्य सुता देवी त्रिषु लोकेषु विश्रुतागंगायमुनया सार्धं संस्थिता लोकभाविनी ॥५॥गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्प्रयागं राजशार्दूल कलां नार्हंति षोडशीम् ॥६॥तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्दिव्यं भुव्यंतरिक्षे च तत्सर्वं जाह्नवि स्मृता ॥७॥प्रयागं समधिष्ठानं कंबलाश्वतरावुभौभोगवत्यथ या चैव वेदिरेषा प्रजापतेः ॥८॥तत्र देवाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिरपूजयंति प्रयागं ते ऋषयश्च तपोधनाः ॥९॥यजंते क्रतुभिर्देवांस्तथा बहुधना नृपाःततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत ॥१०॥प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभोदशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे ॥११॥यत्र गंगा महाभागा स देशस्तत्तपोवनम्सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितम् ॥१२॥इति सत्यं द्विजातीनां साधूनामात्मजस्य वासुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ॥१३॥इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम्इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम् ॥१४॥महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम्अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात् ॥१५॥यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिःजातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥१६॥प्राप्यंते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिःस्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥१७॥त्वया तु सम्यक्पृष्टेन कथितं तु मया विभोपितरस्तारिताः सर्वे तारिताश्च पितामहाः ॥१८॥प्रयागस्य तु सर्वे ते कलां नार्हंति षोडशीम्एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर ॥१९॥बहुक्लेशेन युज्यंते ततो यांति परां गतिम्प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति ॥२०॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्येसप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP