संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ९

स्वर्गखण्डः - अध्यायः ९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
उत्तरेषु च भो विप्रा द्वीपेषु श्रूयते कथा
एवं तत्र महाभागा ब्रुवतस्तन्निबोधत ॥१॥
घृततोयः समुद्रोथ दधिमंडोदकोपरः
सुरोदसागरश्चैव तथान्यो दुग्धसागरः ॥२॥
परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः
पर्वताश्च महाप्राज्ञाः समुद्रैः परिवारिताः ॥३॥
गौरस्तु मध्यमे द्वीपे गिरिर्मनःशिलो महान्
पर्वतः पश्चिमे कृष्णो नारायणसखो द्विजाः ॥४॥
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधात्सुखम् ॥५॥
शरद्वीपे कुशस्तंबो मध्ये जनपदस्य ह
संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः ॥६॥
क्रौंचद्वीपे महाक्रौंचो गिरी रत्नचयाकरः
संपूज्यते भो विप्रेंद्राश्चातुर्वर्ण्येन नित्यदा ॥७॥
गोमंतः पर्वतो विप्राः सुमहान्सर्वधातुकः
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥८॥
मोक्षिभिः संगतो नित्यं प्रभुर्नारायणोहरिः
कुशद्वीपे तु विप्रेंद्राः पर्वतो विद्रुमैश्चितः ॥९॥
सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः
द्युतिमान्नाम विप्रेंद्रास्तृतीयः कुमुदो गिरिः ॥१०॥
चतुर्थः पुष्पवान्नाम पंचमस्तु कुशेशयः
षष्टो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥११॥
तेषामंतरविष्कंभो द्विगुणः प्रविभागशः
औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमंडलम् ॥१२॥
तृतीयं सुरथं नाम चतुर्थं लंबनं स्मृतम्
धृतिमत्पंचमं वर्षं षष्ठं वर्षं प्रभाकरम् ॥१३॥
सप्तमं कापिलं वर्षं सप्तैते वर्षलंबकाः
एतेषु देवगंधर्वाः प्रजाश्च मुदिता द्विजाः
विहरंति रमंते च न तेषु म्रियते जनः ॥१४॥
न तेषु दस्यवः संति म्लेच्छजात्योऽपि वा द्विजाः
गौरप्रायो जनः सर्वः सुकुमारश्च सत्तमाः ॥१५॥
अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुंगवाः
यथा श्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः ॥१६॥
क्रौंचद्वीपे महाभागाः क्रौंचो नाम महागिरिः
क्रौंचात्परो वामनको वामनादंधकारकः ॥१७॥
अंधकारात्परो विप्रा मैनाकः पर्वतोत्तमः
मैनाकात्परतो विप्रा गोविंदो गिरिरुत्तमः ॥१८॥
गोविंदात्परतश्चैव पुंडरीको महागिरिः
पुंडरीकात्परश्चापि प्रोच्यते दुंदुभिस्वनः ॥१९॥
पुरस्ताद्द्विगुणस्तेषां विष्कंभो मुनिपुंगवाः
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ॥२०॥
क्रौंचस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात्परो देश उष्णो नाम तपोधनाः ॥२१॥
उष्णात्परः प्रावरकः प्रावरादंधकारकः
अंधकारकदेशात्तु मुनिदेशः परः स्मृतः ॥२२॥
मुनिदेशात्परश्चैव प्रोच्यते दुंदुभिस्वनः
सिद्धचारणसंकीर्णो गौरः प्रायोजनः स्मृतः ॥२३॥
एते देशाः समाख्याता देवगंधर्वसेविताः
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥२४॥
तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः
पर्युपासंति तं नित्यं देवाः सर्वे महर्षयः ॥२५॥
वाग्भिर्मनोनुकूलाभिः पूजयंति द्विजोत्तमाः
जंबूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च ॥२६॥
द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च ॥२७॥
आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः
एते जनपदा विप्रा द्वीपेषु तेषु सत्तमाः ॥२८॥
उक्ता जनपदा येषु धर्मश्चैकः प्रवर्त्तते
ईश्वरो दंडमुद्यम्य स्वयमेव प्रजापतिः ॥२९॥
द्वीपानेतान्मुनिवरा रक्षंस्तिष्ठति सर्वदा
स राजा स शिवो विप्राः स पिता स पितामहः ॥३०॥
गोपायति द्विजश्रेष्ठाः प्रजाः स द्विजपंडिताः
भोजनं चात्र विप्रेंद्राः प्रजाः स्वयमुपस्थितम् ॥३१॥
सिद्धमेव महाभागा भुंजते तद्धि नित्यदा
ततः परं महाशैलो दृश्यते लोकसंस्थितिः ॥३२॥
चतुरस्रो महाप्राज्ञः सर्वतः परिमंडलः
तत्र तिष्ठंति विप्रेंद्राश्चत्वारो लोकसंमताः ॥३३॥
दिग्गजा हि मुनिश्रेष्ठा वामनैरावतां जनाः
सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः ॥३४॥
तस्याहं परिमाणं न संख्यातुमिहमुत्सहे
असंख्यातः सुनित्यं हि तिर्यगूर्द्ध्वमधस्तथा ॥३५॥
तत्र वै वायवो वांति दिग्भ्यः सर्वाभ्य एव च
असंबंधा मुनिश्रेष्ठास्तान्निगृह्णंति ते द्विजाः ॥३६॥
पुष्करैः पद्मसंकाशैर्विकर्षंति महाप्रभैः
शतधा पुनरेवाशु ते तान्मुंचंति नित्यशः ॥३७॥
श्वसद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः
आगच्छंति द्विजश्रेष्ठास्तत्र तिष्ठंति वै प्रजाः ॥३८॥
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत्
श्रुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम् ॥३९॥
श्रीमांस्तरति विप्रेंद्राः सिद्धार्थः साधुसंमतः
आयुर्बलं च कीर्त्तिश्च तस्य तेजश्च वर्द्धते ॥४०॥
यः शृणोति समाख्यातुं पर्वणीदं धृतव्रतः
प्रीयंते पितरस्तस्य तथैव च पितामहाः ॥४१॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 01, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP