संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५४

स्वर्गखण्डः - अध्यायः ५४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
वेदं वेदौ तथा वेदान्वेदांगानि तथा द्विजाः
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः ॥१॥
गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया
तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति ॥२॥
वैणवीं धारयेद्यष्टिमंतर्वासस्तथोत्तरम्
यज्ञोपवीतद्वितयं सोदकं च कमंडलुम् ॥३॥
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ
रौक्मे च कुंडले धार्ये कृत्तकेशनखः शुचिः ॥४॥
अन्यत्र कांचनाद्विप्रो न रक्तां बिभृयात्स्रजम्
शुक्लांबरधरो नित्यं सुगंधः प्रियदर्शनः ॥५॥
न जीर्ण मलवद्वासा भवेद्वै विभवे सति
न रक्तमुल्बणं चान्य धृतं वासो न कुंडलम् ॥६॥
नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत्
उपवीतमलंकारं दर्शयन्कृष्णमाजिनम् ॥७॥
नापसव्यं परीदध्याद्वासो न विकृतं वसेत्
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ॥८॥
रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान्
अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ॥९॥
आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम्
ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते ॥१०॥
वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु
षष्ठ्यष्टमीं पंचदशीं द्वादशीं च चतुर्दशीम् ॥११॥
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् ॥१२॥
एतानि स्नातको नित्यं पावनानि च पावयेत्
वेदोदितं स्वकं कर्म्म नित्यं कुर्यादतंद्रितः ॥१३॥
अकुर्वाणः पतत्याशु नरकानतिभीषणान्
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ॥१४॥
कुर्याद्गृह्याणि कार्याणि संध्योपासनमेव च
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ॥१५॥
दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम्
न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि ॥१६॥
कुर्वीतात्महितं नित्यं सर्वभूतानुकंपकः
वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥१७॥
देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा
श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः ॥१८॥
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित्
येनास्य पितरो याता येन याताः पितामहाः ॥१९॥
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ॥२०॥
सत्यवादी जितक्रोधो लोभमोहविवर्जितः
सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही ॥२१॥
मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः
दाता यज्वा देवभक्तो ब्रह्मलोके महीयते ॥२२॥
त्रिवर्गसेवी सततं देवानां च समर्चनम्
कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् ॥२३॥
विभागशीलः सततं क्षमायुक्तो दयालुकः
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥२४॥
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥२५॥
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः
यथाशक्ति चरन्धर्म्मं निंदितानि विवर्जयेत् ॥२६॥
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम्
गृहस्थो मुच्यते बंधान्नात्र कार्याविचारणा ॥२७॥
विगर्हित जय क्षेप हिंसा बंधवधात्मनाम्
अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा ॥२८॥
स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम्
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥२९॥
चतुर्दशानां विद्यानां धारणा हि परार्थतः
विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥३०॥
अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते
धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ॥३१॥
सत्येन लोकं जयति सत्यं तत्परमं पदम्
यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ॥३२॥
दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः
अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ॥३३॥
यया स देवोभगवान्विद्यया विद्यते परः
साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥३४॥
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥३५॥
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत्
नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ॥३६॥
नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥३७॥
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत्
धर्मो हि भगवान्देवो गतिः सर्वेषु जंतुषु ॥३८॥
भूतानांप्रियकारीस्यान्नपरद्रो हकर्मधीः
न वेददेवतानिंदां कुर्य्यात्तैश्च न संवसेत् ॥३९॥
यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥४०॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुःपंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP