संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५५

स्वर्गखण्डः - अध्यायः ५५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
न हिंस्यात्सर्वभूतानि नानृतं वावदेत्क्वचित्
नाहितं नाप्रिंयं वाच्यं न स्तेनः स्यात्कदाचन ॥१॥
तृणं वा यदि वा शाकं मृदं वा जलमेव च
परस्यापहरञ्जंतुर्नरकं प्रतिपद्यते ॥२॥
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि
न चान्यस्मादशक्तश्चेन्निंदितान्वर्जयेद्बुधः ॥३॥
नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत्
प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः ॥४॥
न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः
ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन ॥५॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते
देवस्वं चापि यत्नेन सदा परिहरेत्ततः ॥६॥
पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम्
अदत्तानि च न स्तेयं मनुः प्राह प्रजापतिः ॥७॥
गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥८॥
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः
धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेत् ॥९॥
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथिस्थितैः
क्षुधितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः ॥१०॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत्
व्रतेन पापं व्यागुह्य कुर्वन्स्त्रीशूद्र दंभनम् ॥११॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥१२॥
अलिंगी लिंगिवेषेण यो वृत्तिमुपतिष्ठति
सलिगिंनो हरेदेनस्तिर्यग्योनौ च जायते ॥१३॥
याचनं योनिसंबंधं सहवासं च भाषणम्
कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेत् ॥१४॥
देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च
देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ॥१५॥
जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम्
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ॥१६॥
कुलान्यकुलतां यांति यानि हीनानि धर्म्मतः
कुविचारैः क्रियालोपैर्वेदानध्ययनेन च ॥१७॥
कुलान्यकुलतां यांति ब्राह्मणाऽतिक्रमेण च
अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ॥१८॥
अगोत्रधर्म्माचरणात्क्षिप्रं नश्यति वै कुलम्
अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च ॥१९॥
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम्
अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत् ॥२०॥
शूद्रराज्ये च न वसेन्न पाखंडजनैर्वृते
हिमवद्विंध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् ॥२१॥
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ॥२२॥
पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः
अर्द्धकोशं नदीकूलं वर्जयित्वा द्विजोत्तमः ॥२३॥
नान्यत्र निवसेत्पुण्यं नांत्यजग्रामसन्निधौ
न संवसेच्च पतितैर्न चांडालैर्न पुल्कसैः ॥२४॥
न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः
एकशय्यासने पंक्तिर्भांडे पक्वान्नमिश्रणम् ॥२५॥
यजनाध्यापने योनिस्तथैव सहभोजनम्
सहाध्यायस्तु दशमः सहयाजनमेव च ॥२६॥
एकादश समुद्दिष्टा दोषाः सांकर्यसंस्थिताः
समीपे चाप्यवस्थानात्पापं संक्रमते नृणाम् ॥२७॥
तस्मात्सर्वप्रयत्नेन सांकर्य्यं परिवर्जयेत्
एकपंक्त्युपविष्टा ये न स्पृशंति परस्परम् ॥२८॥
भस्मना कृतमर्य्यादा न तेषां संकरो भवेत्
अग्निना भस्मना चैव सलिलेन विलेखतः ॥२९॥
द्वारेण स्तंभमार्गेण षड्भिः पंक्तिर्विभिद्यते
न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् ॥३०॥
परक्षेत्रे गां चरंतीं न चाचक्षीत कर्हिचित्
न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत् ॥३१॥
न सूर्यपरिवेषं वा नेंद्रचापं पराह्निकम्
परस्मै कथयेद्विद्वान्शशिनं वाथ कांचनम् ॥३२॥
न कुर्याद्बहुभिः सार्द्धं विरोधं बंधुभिस्तथा
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥३३॥
तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत्
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ॥३४॥
न देवगुरुविप्राणां दीयमानं तु वारयेत्
न चात्मानं प्रशंसेद्वा परनिंदां च वर्जयेत् ॥३५॥
वेदनिंदां देवनिंदां प्रयत्नेन विवर्जयेत्
यस्तु देवानृषींश्चैव वेदान्वा निंदते द्विजः ॥३६॥
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः
निंदयेद्वा गुरुं देवं वेदं वासोपबृंहणम् ॥३७॥
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः
तूष्णीमासीत निंदायां न ब्रूयात्किंचिदुत्तरम् ॥३८॥
कर्णौ पिधाय गंतव्यं न चैनमवलोकयेत्
वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः ॥३९॥
विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः ॥४०॥
सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत्
नृणां मिथ्याभिशस्तानां पतंत्यश्रूणि रोदनात् ॥४१॥
तानि पुत्रान्पशून्घ्नंति तेषां मिथ्याभिशंसिनाम्
ब्रह्महत्या सुरापाने स्तेये गुर्वंगनागमे ॥४२॥
दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने
नेक्षेतोद्यंतमादित्यं शशिनं वाऽनिमित्ततः ॥४३॥
नास्तं यांतं न वारिस्थं नोपस्पृष्टं न मध्यगम्
तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम् ॥४४॥
न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन
न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ॥४५॥
नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः
नाभिभाषेत च परमुच्छिष्टो वावगुंठितः ॥४६॥
न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम्
न तैलोदकयोश्छायां न पंक्तिं भोजने सति ॥४७॥
न मुक्तबंधनं पश्येन्नोन्मत्तं गजमेव वा
नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम् ॥४८॥
क्षुवतीं जृंभमाणां वा नासनस्थां यथासुखम्
नोदके चात्मनो रूपं शुभं वाशुभमेव वा ॥४९॥
न लंघयेच्च मतिमान्नाधितिष्ठेत्कदाचन
न शूद्राय मतिं दद्यात्कृसरं पायसं दधि ॥५०॥
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः
न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः ॥५१॥
न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत्
लोभं दंभं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम् ॥५२॥
ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत्
न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत् ॥५३॥
न हीनानुपसेवेत न च तृष्णामतिः क्वचित्
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ॥५४॥
न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः
न नखेन लिखेद्भूमिं गां च संवेशयन्नहि ॥५५॥
न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान्
आवासे भोजने वापि न त्यजेत्सहयायिनम् ॥५६॥
नावगाहेदपो नग्नो वह्निं नातिव्रजेत्तथा
शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ॥५७॥
न सर्प शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत्
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ॥५८॥
न पाणि पाद वाङ्नेत्र चापल्यं समुपाश्रयेत्
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ॥५९॥
न चांगनखवाद्यं वै कुर्यान्नांजलिना पिबेत्
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ॥६०॥
न शातयेदिष्टिकाभिर्मूलानि च फलानि च
न म्लेच्छभाषणं शिक्षेन्नाकर्षेच्च पदासनम् ॥६१॥
नखभेदनमास्फोटं छेदनं वा विलेखनम्
कुर्य्याद्विमर्द्दनं धीमान्नाकस्मादेव निष्फलम् ॥६२॥
नोत्संगे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेत्
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ॥६३॥
न संहताभ्यां पाणिभ्यां कंडूयेदात्मनः शिरः
न लौकिकैस्तवैर्देवांस्तोषयेद्वाक्पतेरपि ॥६४॥
नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत्
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥६५॥
न गच्छंस्तु पठेद्वापि न चैव स्वशिरः स्पृशेत्
न दंतैर्नखरोमाणि च्छिंद्यात्सुप्तं न बोधयेत् ॥६६॥
नाबालातपमासेवेत्प्रेतधूमं विवर्जयेत्
नैव स्वप्याच्छून्यगेहे स्वयं नोपानहौ हरेत् ॥६७॥
नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत्
न पादक्षालनं कुर्यात्पादेनैव कदाचन ॥६८॥
नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः
नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा ॥६९॥
वाय्वग्निनृपविप्रान्वा सूर्यं वा शशिनं प्रति
अशुद्धः शयनं पानं स्वाध्यायं स्नान भोजनम् ॥७०॥
बहिर्निष्क्रमणं चैव न कुर्वीत कदाचन
स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् ॥७१॥
उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत्
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान् ॥७२॥
न चालनं पदा वापि न देवप्रतिमां स्पृशेत्
नाशुद्धोग्निं परिचरेन्न देवान्कीर्तयेदृषीन् ॥७३॥
नावगाहेदगाधांबु धावयेन्नाऽनिमित्ततः
न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम् ॥७४॥
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत्
अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा ॥७५॥
व्यतिक्रामेन्न स्रवंतीं नाप्सु मैथुनमाचरेत्
चैत्यवृक्षं न वै छिंद्यान्नाप्सु ष्ठीवनमाचरेत् ॥७६॥
नास्थिभस्मकपालानि न केशान्न च कंटकान्
तुषांगारकरीषं वा नाधितिष्ठेत्कदाचन ॥७७॥
न चाग्निं लंघयेद्धीमान्नोपदध्यादधः क्वचित्
न चैनं पादतः कुर्य्याच्छूर्पेण न धमेद्बुधः ॥७८॥
न वृक्षमवरोहेत नावेक्षेताशुचिः क्वचित्
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ॥७९॥
सुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान्
अपण्यं कूटपण्यं वा विक्रयेन प्रयोजयेत् ॥८०॥
न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः
पुण्यस्थानोदकस्थाने सीमांतं वाहयेन्न तु ॥८१॥
न भिंद्यात्पूर्वसमयमभ्युपेतं कदाचन
परस्परं पशून्व्याघ्रान्पक्षिणो न च योधयेत् ॥८२॥
परबाधां न कुर्वीत जलवातातपादिभिः
कारयित्वा सुकर्माणि गुरून्पश्चान्न वंचयेत् ॥८३॥
सायंप्रातर्गृहद्वारान्रक्षार्थं परिघट्टयेत्
बहिर्माल्यं सुगंधिं वा भार्यया सह भोजनम् ॥८४॥
विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत्
नखादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसेद्बुधः ॥८५॥
स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत्
न पक्षकेणोपधमेन्न शूर्पेण च पाणिना ॥८६॥
मुखेनाग्निं समिंधीत मुखादग्निरजायत
परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः ॥८७॥
नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत्
न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम् ॥८८॥
न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत्
नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह ॥८९॥
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा
नोपानद्वर्जितो वाथ जलादिरहितस्तथा ॥९०॥
न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः
न निंदेद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा ॥९१॥
देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम्
नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि ॥९२॥
स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः
नांगारभस्मकेशादिष्वधितिष्ठेत्कदाचन ॥९३॥
वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम्
न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः ॥९४॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचपंचाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP