संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| एतद्ग्रन्थविषयानुक्रमः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - एतद्ग्रन्थविषयानुक्रमः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत एतद्ग्रन्थविषयानुक्रमः Translation - भाषांतर ग्रंथेऽस्मिन् विषयाः संति ये तान् वच्मि यथाक्रमम् । मंगलाचरणं पूर्वं ग्रंथारंभप्रयोजनम् ॥१॥ पुण्याहवाचनं नांदीश्राद्धं चाग्निमुखं ततः । ग्रहयज्ञो रजः शांतिर्गर्भाधानं च पुंसवम् ॥२॥ सीमंतोन्नयनं जातकर्म षष्ठ्यर्चनं ततः । नामसंस्कार आंदोलारोहणं कर्णवेधनम् ॥३॥ तांबूलभक्षणमथो निष्क्रमश्चोपवेशनम् । अन्नाशनं बालदृष्टिरक्षा वर्धापनं ततः ॥४॥ चौलं विद्यारंभणं च छूरिकाबंधनं ततः । स्वर्णकारादिमौंजी च दत्तपुत्रविधानकम् ॥५॥ वाग्दानादिकवैवाहं कर्मार्कोद्वाहकर्म च । पूर्वांशौ विषया एते संत्युक्ताः क्रमशः खलु ॥६॥ अतः परं मध्यमांशौ जन्मशांत्यादिकक्रमः । आदौ गोप्रसवः कृष्णचतुर्दश्याश्च शांतिकम् ॥७॥ सिनीवालीकुहूदर्शज्येष्ठामूलर्क्षशांतयः । आश्लेषैकर्क्षयमलत्रिकग्रहणशांतयः ॥८॥ पातवैधृतिसंक्रांतिचित्राद्यर्क्षजशांतयः । सिंहे गोप्रसवो माघे महिषीप्रसवस्ततः ॥९॥पल्लीदीपाद्भुतोडूत्थज्वररोगादिशांतयः । ग्रहदानं क्लेशदानं तत्संकल्पजपादिकम् ॥१०॥ नारायणबलिर्नागबलिर्मंडलदेवताः । वास्तुशांतिस्ततः कूपोदुंबरोद्यापने तथा ॥११॥ तत आह्निकमाख्यातं प्रातः स्मरणपूर्वकम् । रात्रौ शयनपर्यंतं पार्वणश्राद्धकल्पना ॥१२॥ तत आमान्नसंकल्पः श्राद्धतर्पणमेव च । महालयादौ पितरो विभक्तिः श्राद्धकर्मणि ॥१३॥ अत ऊर्ध्वं तृतीयांशौ और्ध्वदेहिकपद्धतिः । प्रायश्चित्तप्रयोगश्च दशदानान्यतः परम् ॥१४॥ विप्रपादांबुग्रहणं गोदानविधिरेव च । ऋणधेनूत्क्रांतिधेनुमोक्षधेनुविसर्जनम् ॥१५॥ पापधेनोर्वैतरणीधेनोश्च प्रतिपादनम् । तिलपात्रप्रदानं च प्रेतदाहादिकं ततः ॥१६॥ एकादशाहिकं कर्म चैकोद्दिष्टादिभाषितम् । ततः परं द्वादशाहे सपिंडीकरणादिकम् ॥१७॥ अथोदकुंभश्राद्धं च पंचकादिमृतेर्विधिः । विधिः पालाशदाहस्य सूतिकामरणस्य च ॥१८॥ रजस्वलाया गर्भिण्याः कुष्ठिनश्च मृतेर्विधिः । विधिः पाखंड्यादिमृतेस्तीर्थेऽस्थिक्षेपणं ततः ॥१९॥ शिलाबद्धश्मशानोत्सर्गोते स्वकुलवर्णनम् । अस्मिन्न्यूनातिरिक्तं तत्पूर्णं कुर्वंतु कोविदाः ॥२०॥ यदि कुटजः कटुरेतन्मध्वादत्ते मधुव्रतो यत्नात् । तद्वदमुष्मात्सारं सुधिया गृह्णंतु दोषमुज्झित्य ॥२१॥ कमलाकरसिंधुकौस्तुभार्कप्रभृतिग्रंथगणं यथामति । प्रविलोक्य तदाशयं विदित्वा रचितो मंदधियामयं मुदे ॥२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP