संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| प्रथमदिनकृत्यम् अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - प्रथमदिनकृत्यम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत प्रथमदिनकृत्यम् Translation - भाषांतर दाहादनंतरं कर्ता गृहाद्बहिर्गत्वा आर्द्रवस्त्रः देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थं मृताहे अद्य प्रथमदिनविधिं करिष्ये इति संकल्प्य मृदं गृहीत्वा ‘ सूर्याय नमः ’ इति दर्शयित्वा सर्वांगेषु विलिप्य स्नायात् । एवं प्रत्यहं त्रिः स्नात्वाऽऽचम्य देशकलौ संकीर्त्य ‘ अमुकगोत्रस्य अमुकप्रेतस्य दाहजनिततापोपशमनार्थं एष तिलतोयांजलिस्तवोपतिष्ठतां ’ इत्यश्मोपरि त्रिर्दद्याद्वस्त्रोदकं च । तथैव ‘ अमुकगोत्र अमुकप्रेत दाहजनिततृषोपशमनार्थं इदं वासोदकं तवोप० ’ इति । एवं स्त्रिया अपि तत्र ‘ अमुकगोत्रे अमुकप्रेते ’ इत्युच्चार्य तिलतोयांजलिं दद्यात् । ततः दक्षिणाग्रकुशोपरि तिलसर्पिर्मिश्रं हविः पिंडं दक्षिणामुखोऽपसव्येन दद्यात् । यथा - पिंडस्थाने दर्भासनमुपतिष्ठतां तस्योपरि तिलोदकमुपतिष्ठतां अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्त्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थं अद्य प्रथमेऽहनि शिरोवयवनिष्पत्त्यर्थं अयं पिंड उपतिष्ठतां तदुपरि तिलोदकमुपतिष्ठतां अर्चनार्थे अभ्यंजनं० अंजनमुप० सूत्रमुप० तिलास्तुलसीपत्रं भृंगिराजपत्रं चोप० । अनादिनिधनो देवः शंखचक्रगदाधरः । अक्षय्यः पुंडरीकाक्षः प्रेतमुक्तिप्रदो भव ॥ इति श्लोकं पठित्वा ‘ इदं पिंडदानं सतिलोदकं प्रेताप्ययनमस्त्विति भवंतोब्रुवंतु ’ इति मंत्रेण सतिलोदकं मुत्तरीयदशानिष्पीडनं पिंडोपरि कृत्वा । ‘ प्रेताप्यायनमस्तु ’ इति प्रतिवचनम् । ततः पिंडमुदके निक्षिप्य स्नायात् । इति प्रथमेऽहनि कृत्यम् । एवमेव प्रत्यहं स्नानादिपिंडप्रक्षेपांतं कुर्यात् ॥ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP