संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| अस्थिसंचयनम् अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - अस्थिसंचयनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत अस्थिसंचयनम् Translation - भाषांतर तच्च प्रथमे द्वितीये तृतीये चतुर्थे सप्तमे नवमे वा दिवसे कार्यं अस्थिदाहे पर्णशरदाहे वा सद्यः कृष्णपक्षे दशम्या ऊर्ध्वं अयुग्मतिथिषु एकादश्यां त्रयोदश्यां वा कृष्णपक्षाभावे सपिंडीकरणात्पूर्वं स्मृत्युक्तकाले कार्यम् । दाहदेशे गत्वा अस्थ्नां श्वशूकरादिस्पर्शे पंचगव्येन तुलस्युदकेन च प्रोक्षणं कुर्यात् । आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहात् अद्य अमुकेहनि अस्थिसंचयनं करिष्ये इति संकल्प्य शमीशाखया सक्षीरोदकेनाप्रदक्षिणं त्रिः परिक्रमन् श्मशानदेशे प्रोक्षयेत् । पादमारभ्य शिरः पर्यंतमेकैकास्थि गृहीत्वा यथा शब्दो न भवति तथा नवे कुंभे निदध्युः अन्यद्भस्म गंगायां क्षिपेत् वर्षकालादन्यकाले यत्र जलं नागच्छेत्तादृशे शुद्धे देशे गर्तं कृत्वा तत्र अस्थिकुंभप्रक्षेपणं कुर्यात् । ततो यथाकुंभो न दृश्यते तथा मृदं निधाय पश्चादनवेक्षमाणोऽन्यत्र गत्वा स्नायात् । ततो श्मशानदेशे गोमयेनोपलिप्य तत्र त्रिकोणां वेदिं कृत्वा हरिद्रादिभिरलंकृत्य चतुरो भक्तपिंडान् कृत्वा तत्र मध्ये उदकपूर्णं कुंभं निधाय तस्योपरि भक्तपिंडं दत्त्वा देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं श्मशानवेदिकाश्राद्धं करिष्ये अमुकगोत्राय अमुकप्रेताय भोजनार्थं अयं पिंडः पानार्थं चोदकुंभोदकमुपतिष्ठतां इति तिलोदकं दद्यात् । पश्चिमभागे श्मशानवासिने रुद्राय भोजनार्थमयं भक्तपिंडः पानार्थं चोदकुंभोदकमुपति० तत उत्तरतः स्मशानवासिभ्यः प्रेतेभ्यः भोजनार्थमयं पिंडः पानार्थमुदकुंभोदकं चोप० । ततः पूर्वतो दक्षिणतो वा प्रेतसख्ये अयं पिंडः पानार्थमुदकुंभोदकं चोप० ततः क्रमेण तेषामुपरि तिलोदकं० अमुकगोत्राय अमुकप्रेताय तिलोदकमु० इति दद्यात् । ततः कालाय दहनपतये पादुकाद्वयमुप० एवं पादुकाषट्कं दत्त्वा पोलिकात्रयं छत्रत्रयं च क्रमेण दत्त्वा स्नायात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP