संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| धनिष्ठापंचकमरणशांतिः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - धनिष्ठापंचकमरणशांतिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत धनिष्ठापंचकमरणशांतिः Translation - भाषांतर सा एकादशाहे कार्या । आचम्य देशकालौ संकीर्त्य अपसव्यं अमुकगोत्रस्य अमुकप्रेतस्य धनिष्ठापंचकमरणसृचितवंशारिष्टनिरसनद्वारा प्रेतस्योत्तमलोकप्राप्त्यर्थं ( सव्यं ) धनिष्ठापंचकशांतिं करिष्ये तदंगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये । इति संकल्प्य स्थंडिलं गोमयेनोपलिप्योल्लिख्य वरदनामानमग्निं प्रतिष्ठाप्य ध्यात्वा अद्येत्यादि० समदद्वयमादाय - क्रियमाणे धनिष्ठापंचकमरणशांतिहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये अस्मिन्नन्वाहितेऽग्नावित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - यमं धर्मराजं मृत्युं अंतकं वैवस्वत कालं सर्वभूतक्षयं औदुबरं दध्नं नीलं परमेष्ठिनं वृकोदरं चित्रं चित्रगुप्तं एताः प्रधानदेवता एकैकया चर्वाहुत्या यक्ष्ये शेषेणेत्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयमग्नावाधाय परिसमूहनादि पूर्णपात्रनिधानांतं कृत्वा चरुस्थाल्यां ‘ यमाय त्वा जुष्टं निर्वपामि ’ एवं ‘ धर्मराजाय त्वा जुष्टं निर्वपामि ’ । इत्यादि चतुर्दशनाममंत्रैः प्रत्येकं चतुरश्चतुरो मुष्टीन् तंडुलान्निरुप्य तथैव प्रत्येकं क्रमेण प्रोक्ष्य चरुं श्रपयित्वाआज्यसंस्काराद्याज्यभागांतं कृत्वा अवदानधर्मेण चरुमवदाय ‘ यमाय नमः ’ इति हुत्वा ‘ यमायेदं न मम ’ इति त्यजेत् । एवं धर्मराजादिभ्यः प्रत्येकं नाम्ना हुत्वा त्यक्त्वा च यद्वा तंडुलद्रव्येणैव हुत्वा स्विष्टकृदादिहोमशेषं समाप्य कांस्यपात्रे तैलं क्षिप्त्वा तत्र स्वप्रतिबिंबं दृष्ट्वा तद्ब्राह्मणाय दद्यात् । अद्येत्यादि० कृतस्य धनिष्ठापंचकमरणशांतिकर्मणः सांगतासिद्ध्यर्थं ब्रह्माविष्णुरुद्रप्रीत्यर्थं नानानामगोत्रेभ्यो ब्राह्मणेभ्यः माष - मुद्ग - यव - व्रीहि - प्रियंगु - दानानि करिष्ये इति संकल्प्य द्विजान्संपूज्य तानि दक्षिणासहितानिदद्यात् अशक्तौ यथासंभवं वा दद्यात् । यस्यस्मृत्या० अनेन धनिष्ठापंचकमरणशांत्याख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । तत आचामेत् ॥ ॥ इति धनिष्ठापंचकमरणशांतिविधिः ॥ ॥ त्रिपान्मरणशांतिः नावश्यकीत्याहुस्तज्ज्ञाः अतः कृताकृता ॥ पंचकशांतिश्च धर्मसिंध्वादौ द्रष्टव्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP