संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| पाथेयश्राद्धम् अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - पाथेयश्राद्धम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत पाथेयश्राद्धम् Translation - भाषांतर एतच्चद्वादशाहे त्रयोदशाहे चा कार्यम् । आचम्य पवित्रादि धृत्वा देशकालौ संकीर्त्य अपसव्यं ‘ अमुकगोत्रस्य अमुकवर्मणः प्रेतलोकात् पितृलोकगमने सुखसिद्ध्यर्थं अस्मत्पितृपितामहप्रपितामहानां अमुकगोत्राणां अमुकवर्मणां वसुरुद्रादित्यस्वरुपाणां ( सव्यं ) पाथेयश्राद्धं सदैवं सपिंडं पार्वणेन विधिना आमेन हविषा सद्यः करिष्ये तदंगतिलोदकं च करिष्ये ’ । तिलोदकं कृत्वा क्षणादि कुर्यात् ‘ पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां मम पितुः ( मातुः वा ) पाथेयश्राद्धे क्षणं नमः ’ एवं द्वितीये अपसव्यं ‘ अस्मत्पितृ - पितामह - प्रपितामहानां पाथेयश्राद्धे क्षणं नमः पितृपिताम० पाद्यं० । पितृ - पितामह - प्रपितामहानां अमुकगोत्राणां अमुकवर्मणां वसुरुद्रादित्यस्वरुपाणां आसनं नमः । पितः अमुकवर्मन् अमुकगोत्र वसुरुप इदं ते अर्घ्यं नमः ’ । एवं पितामहप्रपितामहाभ्यामर्घ्ये दत्वा गंधपुष्पतुलसीभृंगराजधूपदीपाच्छादनांतोपचारांश्च दत्त्वा ‘ एते उपचाराः परिपूर्णा भवंतु ’ इति वाचयित्वा सव्यं ‘ आमप्रदानं करिष्ये पुरुरवार्द्रव० देवेभ्यः इदमामं ( दास्यमान वा ) यथाशक्तिसोपस्करं सदक्षिणं सतांबूलं अमृतरुपेण संपद्यंतां नमः ’ इत्युदकमुत्सृजेत् । अपसव्यं अस्मत्पितृपितामहप्रपितामहेभ्यः अमुकगोत्रेभ्यः अमुकवर्मभ्यः वसुरुद्रादित्यस्वरुपेभ्यः इदमाममित्यादिपूर्ववत् । सव्यं अद्येत्यादि० ‘ मम पितुः पाथेयश्राद्धांगत्वेन सक्तुपिंडप्रदानं करिष्ये ’ अपसव्यं भूमौ रेखां कृत्वा तिलोदकेन प्रोक्ष्य दर्भानास्तीर्य तदुपरि तिलोदकं दत्त्वा अस्मत्पितः अमुकवर्मन् अमुकगोत्र वसुरुप पाथेयश्राद्धे अयं सक्तुपिंडो नमो नमः तदुपरि तिलोदकं नमः । अस्मत्पितामह अमुकवर्मन् अमुकगोत्र रुद्ररुप पाथेयश्राद्धे अयं ते सक्तुपिंडो नमः । अस्मत्प्रपितामह अमुकवर्मन् अमुकगोत्र आदित्यरुप पाथेयश्राद्धे अयं ते सक्तुपिंडो नमः इति पिंडत्रयं दत्त्वा तदुपरि अंजनाभ्यंजने सूत्रं च दत्त्वा सव्येन ‘ कुलाभिवृद्ध्यर्थं पिंडपूजां करिष्ये ’ इति संकल्प्य ‘ पिंडस्थपितृभ्यः आसनं नमः ’ एवं पाद्यार्घ्यादिमंत्रपुष्पांतोपचारैः पिंडानभ्यर्च्य अत्र यथाविभवं अमुकस्य प्रेतलोकात् पितृलोकगमने परलोकमार्गे क्षुन्निवारणार्थं अन्नं तृण्निवारणार्थमुदककुंभं उपवेशनार्थमासनं अंधकारनिवारणार्थं दीपं आतपनि० छत्रं कंटकनि० उपानहं भयनि० दंडं सुखशयनार्थं शय्यां कटं वा दद्यात् । ‘ पिंडोद्वासनं करिष्ये ’ अयोध्या मथुरा मायेति श्लोकं पठित्वा पिंडान् विसृज्य उत्तिष्ठंतु पितरः सव्येन विश्वेदेवैः सहेति ब्राह्मणान् दर्भबटून् वा विसृज्य एकोविष्णु० अनेनअमुकस्य पाथेयश्राद्धाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । आचम्य पवित्रं विसृजेत् ॥ ॥ इति पाथेयश्राद्धम् ॥ ॥ ततः तिलामलकादिभिः शीतेनोष्णेन च जलेन स्नायात् वक्ष्यमाणप्रकारेण शीतोदकादि ( निधनशांतिं ) कुर्याच्च ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP