संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
पालाशप्रतिकृतिदाहविधिः

अथान्त्येष्टिप्रयोगः - पालाशप्रतिकृतिदाहविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशांतरमरणे पराकद्वयमष्टौ कृच्छ्रान्वा कृत्वाऽस्थीनि दहेत् यदा यस्यास्थ्यलाभस्तस्य पर्णशरदाहः कार्यः स च दशाहानंतरं गुरुशुक्रास्तादिरहितनिर्णीतशुद्धकाले कार्यः दशाहाभ्यंतरे तु यथासंभवं शुद्धदिने । शुद्धभूमौ मृगचर्मास्तीर्य तदुपरि दक्षिणोत्तरायतमेकं शरं निधाय तदुपरि पालाशवृंतानि न्यसेत् । यथा - शिरसि ४०, ग्रीवायां १०, बाहोः प्रत्येकं ५० - १००, करांगुलिषु सर्वासु १०, जठरे ३०, उरसि २०, अंडयोः प्रत्येकं ६, शिश्ने ४, ऊर्वोः प्रत्येकं ५०।१००, जंघातः पादतलांतं यावत्पादयोः प्रत्येकं १५ - ३०, सर्वासु पादांगुलिषु १०, एवं षष्ट्यधिकशतत्रयमितैः पर्णशरैः शरीरं निर्माय ऊर्णासूत्रेण शरेण सह बध्वा जलालोडितयवपिष्टेनानुलिंपेत् । ततः शक्तौ सत्यां वक्ष्यमाणान् पदार्थान् तत्तत्स्थाने स्थापयेत् । मूर्धनि कदलीफलं शिरसि नारिकेलं वर्तुलं तुंबीफलं ललाटे कदलीफलं दंतेषु दाडिमी बीजानि कर्णयोः कंकणे नेत्रयोः कपर्दकौ नासिकायां नीलपुष्पं नाभौ अभ्रकं स्तनयोर्जंबीरफलद्वयं वाते मनः शिलां पित्ते हरितालं कफे समुद्रफेनं रुधिरे मधु पुरीषे गोमयं मूत्रे गोमूत्रं रेतसि पारदं वृषणयोर्वृंताकद्वयं शिश्ने गृंजरं केशेषु वनसूकरजटाः लोमसु ऊर्णं संधिषु तिलपिष्टं अंत्रेषु कमलनालं मांसस्थाने यवपिष्टेन लिंपेत् । ततः पंचगव्येन प्रोक्ष्य पंचामृतेन पंचामृतमंत्रैः प्रोक्षयेत् । ततः शरीरं गंधोदकेन स्नापयित्वा चंदनेन विलिप्य वस्त्रेणाच्छाद्य यथाचारं उपवीतं दत्त्वा अलंकृत्य ऊर्णासूत्रेण वेष्टयित्वा कृष्णाजिनेनाच्छाद्य पूर्वोक्तविधिना शववद्दहेत् । पालाशवृंताभावे कुशैः प्रतिकृतिं कुर्यात् । अस्थिदाहे पर्णशरदाहे वा सद्य एवास्थिसंचयनं कार्यम् ॥ ॥ इति पालशविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP