संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| तीर्थेऽस्थिप्रक्षेपविधिः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - तीर्थेऽस्थिप्रक्षेपविधिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत तीर्थेऽस्थिप्रक्षेपविधिः Translation - भाषांतर तत्रागुरुशुक्रास्तादिरहिते शुद्धे काले सचैलं स्नात्वा यत्रास्थीनि निखातानि तां भूमिं पंचगव्यैः पृथक्पृथड मंत्रैः प्रोक्षयेत् । तत्र मंत्राः - ‘ गोमूत्रं सर्वपापघ्नं ’ इति गोमूत्रेण ‘ गोशकृद्गंधवद्यच्च ’ इति गोमयेन ‘ कामधेनुसमुद्भूतं ’ इति क्षीरेण ‘ चंद्रमंडलसंकाशं ’ इति दध्ना ‘ आज्यं तेजः समुद्दिष्टं ’ इति घृतेन प्रोक्ष्य ‘ सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता । अनंतफलदात्री या मम पापं व्यपोहतु ’ ॥ इति भूमिं प्रार्थ्य‘ उद्धृतासि वराहेण ’ इति खनित्वा ‘ मृत्तिके देहि मे सर्वं त्वयि सर्वं प्रतिष्ठितम् । त्वया हतेन पापेनायं यात्युत्तमां गतिम् ’ ॥ इति मृदमुद्धत्य ‘ अनादिनि धनो देवः शंखचक्रगदाधरः । यस्यास्थिग्रहणं कुर्वे तस्य मुक्तिप्रदो भव ’ ॥ इत्यस्थीनि गृहीत्वा जलाशये स्नात्वा अस्थिशुद्धिं कुर्यात् । सा यथा - अस्थीनि स्पृष्ट्वा ‘ शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचिर्गंगा मां कुर्वंतु सदा शुचिम् ’ ॥ इति पंचगव्यैः स्नात्वा पुनः स्पृष्ट्वैव दशस्नानानि कुर्यात् । ततोऽस्थ्नां कुशैः ‘ अपवित्रः पवित्रो वा० शुचिरग्निः शुचिर्वायुः० ’ इति मंत्राभ्यां ‘ भवः शर्वो रुद्रः पशुपतिः ’ इत्यादि ‘ शिवाय नमो नमः ’ इत्यंतैर्मंत्रैश्च मार्जयेत् ततो यदीयास्थीनि तस्य कृतसपिंडीकरणस्य पार्वणविधिना श्राद्धमस्थिप्रक्षेपांगभूतं हिरण्येन कुर्यात् । अत्र सक्तुपिंडदानम् । दशाहांतरास्थिप्रक्षेपकरणे एकोद्दिष्टविधिना कार्यम् । ततस्तिलतर्पणं कृत्वा पुनः पंचगव्यपंचामृतशुद्धोदकैरस्थीनि प्रक्षाल्य यक्षकर्दमेनानुलिप्य पुष्पैः प्रपूज्य यथासंभवं अजिन - कंबल - दर्भ - भूर्जपत्र - शाणपत्र - ताडपत्राणां क्रमेण सप्तधा संवेष्ट्य ताम्रसंपुटे स्थापयेत् । ततोऽस्थिषु हेमरौप्यखंडानि क्षिप्त्वा प्रवालमौक्तिकनीलमणींश्च प्रक्षिपेत् । ततः आचम्य अद्येत्यादि० ‘ अमुकस्य तीर्थे करिष्यमाणास्थिप्रक्षेपांगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये ’ इति संकल्प्य उपलेपनादि अग्निप्रतिष्ठापनांतं कृत्वा देशकलौ निर्दिश्य समिदद्वयमादाय क्रियमाणे अस्थिप्रक्षेपांगहोमे देवतापरिग्रहार्थं ’ इत्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - पितृन् प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः तिलाज्याहुतिभिः शेषेणेत्यादि चक्षुषीहोमांतं कृत्वा प्रधानहोमं कुर्यात् । तत्र मंत्रः - ‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयहस्ता नमोस्तुवः ॥ पितृभ्यो नमः पितृभ्य इदं न मम ’ इति त्यागः । एवं तिलाज्याभ्यां प्रतिद्रव्यमष्टोत्तरशतं होमं कृत्वा होमशेषं समाप्य सवेष्टनास्थिसमुच्चययुतताम्रसंपुटमादाय तीर्थं गच्छेत् । तत्र नियमाः - मूत्रपुरीषोत्सर्गकाले अस्थीनि न धारयेत् स्वहीनजातिमस्थिधारणकाले न स्पृशेत् । ततस्तीर्थं प्राप्य तीर्थप्राप्तिनिमित्तकं स्नात्वा अस्थीनि स्नापयित्वा ‘ अमुकगोत्रस्य अमुकवर्मणो ब्रह्मलोकादि प्राप्तये अमुकतीर्थेऽस्थिप्रक्षेपमहं करिष्ये ’ इति संकल्प्य पलाशपर्णपुटे पंचगव्येनास्थीन्यासिच्य हिरण्यशकलमाल्य - तिल - मिश्रितास्थीनिमृत्पिंडे निधाय दक्षिणां दिशमवेक्षमाणो ‘ नमोऽस्तु धर्माय ’ इति वदन् तीर्थे प्रविश्य नाभिमात्रजले स्थित्वा ‘ स मे प्रीतोऽस्तु ’ इत्युक्त्वा तीर्थे क्षिपेत् । ततः स्नात्वा जलाद्बहिरागत्य सूर्यं दृष्ट्वा हरिं च स्मृत्वा विप्राय यथाशक्ति रजतं दक्षिणां दद्यात् । अद्येत्यादि अमुकस्य कृतास्थिक्षेपस्य सांगतासिद्ध्यर्थं इदं रजतं दक्षिणात्वेन तुभ्यमहं संप्रददे इति दद्यात् ॥ इति तीर्थे अस्थिप्रक्षेपविधिः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP