संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| विषमश्राद्धम् अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - विषमश्राद्धम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत विषमश्राद्धम् Translation - भाषांतर तच्च प्रथमतृतीयपंचमसप्तमनवमदिनेषु कुर्यात् । प्रथमदिने आचम्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं अद्य मृताहे विषमश्राद्धं करिष्ये । एवं तृतीयेऽहनि पंचमेहनीत्याद्यूहः कार्यः । तूष्णीं तिलोदकं कृत्वा अमुकगोत्र अमुकप्रेत विषमश्राद्धे अयं ते क्षण उपतिष्ठतां इतिक्षणं दत्वा अमुकगोत्र अमुकप्रेत इदं ते आसनमुपतिष्ठतां अमुकगोत्रस्य अ० प्रेतस्य विषमश्राद्धे पाद्यमुप० ॥ अमुकगोत्र अमुकप्रेत विषमश्राद्धे इदमर्घ्यं तवोपतिष्ठतां अमुकगोत्रेत्यादि० अर्चनार्थे० तिलांस्तुलसीपत्रं चोप० अमुकेत्युक्त्वा आच्छादनार्थे दर्भपत्रमुप० अमुकगोत्राय अमुकप्रेताय० विषमश्राद्धे दास्यमानं यथाशक्तिसोपस्करं सोदकुंभं सदक्षिणमामं सूतकांते दत्तमुप० इति सकुशतिलोदकं दद्यात् । ततः अद्येत्यादि० अमुकविषमश्राद्धे पिंडदानं करिष्ये पिंडस्थाने दर्भासनमुप० तदुपरि तिलोदकमुप० अमुकगोत्राय अमुकप्रेताय आद्येहनि विषमश्राद्धे अयं सक्तुपिंड उप० एतत् पिंडोपरि तिलोदकमुपति० । घृताभ्यंगमुपति० अंजनमुप० सूत्रमुप० अर्चनार्थे तिलास्तुलसीभृंगराजं चोपति० इति दत्वा - अनादिनिधनो देवः शंखचक्र गदाधरः । अक्षय्यः पुंडरीकाक्षः प्रेतमुक्तिप्रदो भव ॥ इतिश्लोकं पठित्वा इदं पिंडदानं सतिलोदकं प्रेताप्यायनमस्त्विति भवंतोब्रुवंत्विति मंत्रेण सतिलोदकमुत्तरीयदशानिष्पीडनं पिंडोपरि कृत्वा - अस्तु प्रेताप्यायनमिति प्रतिवचनम् । अभिरम्यतामिति पिंडं विसृज्य प्रवाह्य स्नायात् ॥ इति नवापरपर्यायं विषमश्राद्धम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP