संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| षोडशमासिकश्राद्धानि अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - षोडशमासिकश्राद्धानि ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत षोडशमासिकश्राद्धानि Translation - भाषांतर यस्मिन् वर्षे चैत्रादिरधिको मासो भवति तदा सप्तदश मासिकानि भवंति संकल्पादिषु तस्याप्यूहः कार्यः । आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं आद्यमासिकं ऊनमासिकं द्वितीयमासिकं त्रैपक्षिकमासिकं तृतीयमासिकं चतुर्थमासिकं पंचममासिकं षष्ठमासिकं ऊनषष्ठमासिकं सप्तममासिकं अष्टममासिकं नवममासिकं दशममासिकं एकादशमासिकं द्वादशमासिकं ऊनाब्दिकं च एतानि षोडशमासिकश्राद्धानि ( तत्तत्काले कर्तव्यानि ) द्वादशाहे सपिंडीकरणाधिकारार्थं अपकृष्य आमेन हविषा चटेषु सद्यः करिष्ये तथा च क्षणादि करिष्ये । तूष्णीं तिलोदकं कृत्वा अमुकगो त्रस्य अमुकप्रेतस्य आद्यमासिकश्राद्धे क्षणमुपतिष्ठतां । अमुकगोत्रस्य अमुकप्रेतस्य ऊनमासिकश्राद्धे क्षणमुतिष्ठतां । एवं द्वितीयमासिकाद्यारभ्य ऊनाब्दिकांतेषु क्षणं दत्त्वा । आमुकगोत्र अमुकप्रेत आद्यमासिक श्राद्धे इदं ते पाद्यमुप० इति सर्वेषां पाद्यं दत्त्वा ( अत्र प्रत्युपचारे प्रतिचटे गोत्रप्रेताद्युच्चारः कुर्वंति ) अमुकगोत्रस्य अमुकप्रेतस्य आद्यमासिकश्राद्धे इदमासनमु० एवं सर्वेषामासनं दद्यात् । ततः अमुकगोत्र अमुकप्रेत आद्यमासिकश्राद्धे इदं ते अर्घ्यमु० इति सर्वत्रार्घ्यं दत्त्वा अमुकगोत्रामुकप्रेत इदं ते गंधमुपतिष्ठतामित्येवं संबुद्ध्या पुष्पतुलसीपत्रभृंगराजाच्छादनांतानुपचारान्दद्यात् । अमुकगोत्राय अमुकप्रेताय आद्यमासिकश्राद्धे इदं आमं यथाशक्ति सोपस्करं सोदकुंभं सदक्षिणं दास्यमानमुपतिष्ठतां एवं चतुर्थीविभक्त्या ऊनमासिकाद्यूनाब्दिकांतेष्वामान्नं दद्यात् । ततः सक्तुपिंडदानम् ॥ दर्भेषु तिलोदकं क्षिप्त्वा अमुकगोत्राय अमुकप्रेताय आद्यमासिकश्राद्धे अयं सक्तुपिंड उपतिष्ठतां तस्योपरि तिलोदकमुप० । एवं ऊनमासिकाद्यूनाब्दिकांतेषु पिंडान् दत्त्वा घृताभ्यंजनादिसर्वं प्राग्वद्दत्त्वा ‘ अनादिनिधनो देवः ’ इति श्लोकं पठित्वा इदं पिंडदानं सतिलोदकमित्याप्यायनं वाचयित्वा ‘ अभिरम्यतां ’ इति विसृज्य पिंडान् प्रवाह्य स्नायात् ॥ इति षोडशमासिकश्राद्धानि ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP