संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| उपदानानि अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - उपदानानि ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत उपदानानि Translation - भाषांतर तत्रादौ तन्नामानि क्रमश्च - आमान्नोदकुम्भोपानत्कमण्डलु - छत्र - वस्त्र - यष्टि - लोहदण्डाग्निष्टिकाप्रदीप तिल - ताम्बूल - चन्दन - पुष्पमाला - कार्पास - सप्तधान्य - सिद्धस्थाली - ऊर्णा - व्यजन - तिलपात्राणि उपदानानि । नौकादानं च । अत्रान्नमामान्नम्, ताम्बूलं सोपस्करं तत्तदुपस्करपात्रसहितं च । सप्तधान्यानि यव - व्रीहि - गोधूम - तिल - माष - मुद्ग - प्रियंग्वाख्यानि । पवित्रपाणिः कर्ता - अद्येत्याद्युक्त्वा ‘ मम पित्रादेः प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं तत्तद्दानकल्पोक्तफलप्राप्त्यर्थं च एकविंशत्युपदानानि यथाशक्ति यथासंख्यानि वा करिष्ये ’ इत संकल्प्य क्रमशो दद्यात् । आमान्नोदकुम्भदाने - ‘ अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । अन्नं ब्रह्माखिलत्राणमस्तु जन्मनि जन्मनि ॥ वारिपूर्णो घटश्चायं सर्वदेवमयो यतः । प्रीयतां धर्मराजस्तु दानेनानेन पुण्यदः ॥ इति मंत्राभ्यां ‘ परलोकेक्षुन्निवारणार्थं तृण्निवारनार्थं च ’ इति विशेषोक्त्या सुपूजिताय ब्राह्मणायैते सदक्षिणे दद्यात् । उपानहदानम् - ‘ उपानहौ प्रदास्यामि कण्टकादि निवारणे । सर्वमार्गेषु सुखदे ह्यतः शान्तिं प्रयच्छ मे ॥ ‘ एतदुपानद्दानं मम पित्रादेः परलोकगमने दृषत्कणकण्टकादिनिवारणपूर्वकसुखगमनार्थं ’ इत्याद्युक्त्वा दद्यात् । कमण्डलुदानम् - त्रिलोकीनाथ देवेश सर्वभूतकृपानिधे । उदपात्रेण संतुष्टः प्रयच्छ तस्य वांछितम् इति मंत्रेण दद्यात्पूर्ववत् । छत्रदानम् - ‘ इह परत्र च तापोपशमनार्थं ’ इति विशेषः । वस्त्रदानम् - ‘ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शांतिं प्रयच्छ मे ॥ ’ इति मंत्रेण ‘ लज्जापहरणपूर्वक देहालंकरणार्थं ’ इति विशेषमुक्त्वा दद्यात् । यष्टिदानम् - ‘ त्रिलोकीनाथ देवेश- इति मंत्रेण मम पित्रादेः ‘ परलोकेऽखिलभयनिवारणार्थं ’ इति विशेषमुक्त्वा दद्यात् ॥ लोहदण्डदानम् - ज्ञानाज्ञानकृतं पापं तथा लोभात्कृतं चिरात् । लोहदंडप्रदानेन सर्वं पापं व्यपोहतु । मम पित्रादेरित्याद्युक्त्वा दद्यात् ॥ अग्निष्टिकादानम् - ‘ त्रिलोकीनाथ० ’ इति मंत्रेण ‘ मम पित्रादेः परलोकेऽन्नपाक - शीताद्युपद्रवनिवारणार्थं ’ इति विशेषोक्त्या दद्यात् ॥ दीपदानम् - ‘ दीपो ज्ञानप्रदो नित्यं देवतानां प्रियः सदा । दानेनास्य भवेत्सौख्यं शान्तिस्तद्वाञ्छितं फलम् ॥ ’ इति मंत्रेण ‘ परलोकेऽन्धकारनिवारणार्थं ’ इत्युद्देशेन दद्यात् ॥ तिलदानम् - ‘ महर्षेर्गोत्रसंभूताः कश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन तस्य पापं व्यपोहतु ॥ ’ इति दद्यात् ॥ ताम्बूलदानम् - सोपस्करं च तांबूलं सर्वदा मंगलं परम् । प्रियं चैव तु देवानां सौगन्ध्यं वदनेऽस्तु वै ॥ इति सोपस्करं सपात्रं दद्यात् ॥ चंदनदानम् - ‘ त्रिलोकीनाथ० ’ इति मंत्रेण ‘ तापोपशमनार्थं देहालंकरणार्थं च ’ इति विशेषोक्तिमुक्त्वा दद्यात् ॥ पुष्पमालादानम् - त्रिलोकीनाथ० पुष्पमालाप्रदानेन० इति मंत्रेण दद्यात् ॥ कार्पासदानम् - ‘ त्रिलोकीनाथ ० कार्पासेन च संतुष्टः ’ इति मंत्रेण तद्दद्यात् ॥ सप्तधान्यदानम् - ‘ त्रिलोकीनाथ० सप्तधान्येन संतुष्टः० ’ इति मंत्रेण एकस्मै ब्राह्मणाय सुपूजिताय दद्यात् ॥ सिद्धस्थालीदानम् - इमां पायसपूर्णां यः स्थालीं घृतजलादिभिः । सा तत्संपत्तिपात्रं स्यादतः शान्तिं प्रयच्छ मे । इति मंत्रेण वर्षपर्यंतं ब्राह्मणभोजनपर्याप्तामान्नेन सह सिद्धस्थालीं दद्यात् ( तन्निष्क्रयीभूतं द्रव्यं वा ) ॥ ऊर्णादानम् - ऊर्णावस्त्रं चारु चित्रं देवानां प्रीतिवर्धनम् । सुखस्पर्शकरं यस्मादतः शान्तिं प्रयच्छ मे । इति मंत्रेण० ॥ व्यजनदानम् - व्यजनं वायुदैवत्यं ग्रीष्मकाले सुखप्रदम् । अस्य प्रदानात्सकलाः संतु तस्य मनोरथाः ॥ इति मंत्रेण दद्यात् ॥ तिलपात्रदानम् - तिलाः पुण्याः पवित्राश्च तिलाः सर्वकराः स्मृताः । शुक्ला वा यदि वा कृष्णा ऋषिगोत्रसमुद्भवाः ॥ यानि कानि च पापानि ब्रह्महत्यासमानि च । तिलपात्रप्रदानेन तस्य विष्णुर्व्यपोहतु ॥ इति मंत्राभ्यां ‘ मम पित्रादेर्जन्मप्रभृतिमरणांतं कृतनानाविधपापप्रणाशार्थं० ’ इत्याद्युक्त्वा पूर्ववद्दद्यात् ॥ ॥ अत्र केचिन्नौकादानमिच्छन्ति तत्प्रत्यक्षं, इक्षुखण्डत्रयनिर्मितां नौकां वा वस्त्राच्छादितां कृत्वा पूर्ववद्दद्यादित्याचारः ॥ ॥ इत्युपदानानि ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP