संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ महैकोद्दिष्टश्राद्धविधिः

अथान्त्येष्टिप्रयोगः - अथ महैकोद्दिष्टश्राद्धविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


एकादशेऽहनि ग्रामाद्बहिः शुचौ देशे गत्वा तत्र गोमयेनोपलिप्य भूमौ अग्निं प्रतिष्ठाप्य परिसमुह्य परिस्तीर्य पर्युक्ष्य गंधादिभिरभ्यर्च्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य उत्तमलोकप्राप्त्यर्थं मृताहादद्य एकादशेहनि अग्नौ महैकोद्दिष्टश्राद्धं करिष्ये इति संकल्प्य तूष्णीं तिलोदकं कृत्वा अग्नेरग्रतः अमुकगोत्रस्य अ० प्रेतस्य महैकोद्दिष्टश्राद्धे क्षण उपतिष्ठतां इति क्षणम् । अमुकगोत्र अमुकप्रेत इदं ते पाद्यमुप० । अमुकगोत्रस्य अमुकप्रेतस्य आसनमुप० अमुकगोत्राय अमुकप्रेताय अर्घ्यमुप० । अ० गोत्र अमुकप्रेत चंदनमुप० । अमुकगोत्र अमुकप्रेत पुष्पं तुलसीपत्रं भृंगराजं चोपतिष्ठतां । अमुकगोत्र अमुकप्रेत आच्छादनमुपतिष्ठतां ततः पात्रे घृताक्तं सिद्धमन्नमादाय हस्तेन गृहित्वा ‘ प्रेताय नमः ’ इत्यग्नौ हुत्वा ततोऽग्रतः त्रिकोणं मंडलं कृत्वा तत्र पात्रमासाद्य अन्नं परिविष्य घृताक्तं कृत्वा तत्रांगुष्ठं निवेश्य अमुकगोत्राय अमुकप्रेताय महैकोद्दिष्टश्राद्धे इदमन्नं यथाशक्तिसोपस्करं परिविष्टं अमृतरुपेण उपतिष्ठतां इति निवेदितान्नस्य द्वात्रिंशदाहुतीरग्नौ ‘ प्रेतपितृभ्यो नमः ’ इति नाममंत्रेण जुहुयात् यद्वा - ‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयाढ्यास्तान्नमाम्यहं । प्रेतपितृभ्यो नमः ’ इति मंत्रेण ३२ आहुतीर्जुहुयात् । ततो दर्भशिखायां अमुकगोत्राय अमुकप्रेताय महैकोद्दिष्टश्राद्धे अयं पिंड उप० इति दत्त्वा अमुकगोत्राय अमुकप्रेताय पिंडोपरि तिलोदकमुपति० घृताभ्यंजनं अंजनं वासः सूत्रं अर्चनार्थे गंधं तुलसीपत्रं भृंगराजपत्रं चोप० । ‘ अनादिधनो देवः ’ इति श्लोकं पठित्वा ‘ इदंपिंडदानं सतिलोदकं प्रेताप्यायनमस्तु ’ इति प्रतिवचन वाचयित्वा परिस्तरणानि विसृज्य परिसमूहनपर्युक्षणे कृत्वा अभिरम्यतामिति विसृज्य अभिरतोस्मीति प्रतिवचनं वाचयित्वा पिंडं प्रवाह्य स्नायात् ॥ ॥ इति महैकोद्दिष्टविधिः ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP