संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| बृहच्छय्यादानम् अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - बृहच्छय्यादानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत बृहच्छय्यादानम् Translation - भाषांतर अष्टदले प्रस्थमितांस्तिलान् प्रक्षिप्य तेषु दार्वादिपर्यंके स्वास्तीर्णाद्युपस्करयुतां शय्यामास्तीर्य तस्याः समन्तादीशानादिकोणचतुष्टये शिरोभागे च पञ्च कुंभान् क्रमेण घृत - कुंकुम - गोधूम - जलपूर्ण - कुम्भं उच्छीर्षे घृतपूर्णकलशं सप्तधान्यानि च संस्थाप्य अद्येत्यादि० मम पित्रादेः समस्तपापक्षयपूर्वकाप्सरोगण - सेवायुतविमानकरणकेंद्रपुरगमनोत्तर - षष्टिसहस्रवर्षाधिकरण - क्रीडन - स्त्रीसंघसमावृत - सर्वलोकमहिमत्व - तदुत्तर - षष्टियोजनमंडल - राज्यभोगानन्तर - शिवसायुज्यावाप्तिकामः शय्यादानमहं करिष्ये इति संकल्प्य सपत्नीकं ब्राह्मणं घृत्वा यथाविभवं वस्त्रालंकारादिभिः सम्पूजयेत् । ततः शय्यायां यथाशक्त्या निर्मितां स्वर्णमयीं लक्ष्मीनारायणप्रतिमां संस्थाप्य सम्पूज्य तत्र सुपूजितं ब्राह्मणमुपवेश्य सविप्रां शय्यां प्रदक्षिणीकृत्य ‘ नमः प्रामाण्यै देव्यै ’ इति तच्चतुर्दिक्षु क्रमेण प्रणमेत् । दानमंत्रः - यथा न कृष्णशयनं शून्यं सागरजायया । तथैतस्याप्यशून्याऽस्तु शय्या जन्मनि जन्मनि ॥ ‘ अद्य मम पित्रादेः समस्तपापक्षयपूर्वक - ’ इत्यारभ्य ‘ शिवसायुज्यावाप्तिकामोऽहं ’ इत्युक्त्वानंतरं इमां शय्यां ईशानादि कोणचतुष्टयेषु स्थापित - घृत - कुंकुम - गोधूम - जल - पूर्णयुतां हंसतूल्याच्छादितां श्वेतगण्डोपधानिकासहितां प्रच्छादनपटास्तृतां ससप्तधान्यां सोपस्करताम्बूलायतनादर्शैंलालवंगकर्पूरयुतां सुगंध - परिमलभोग्यवस्तु - चंदनागरु - दीपिकोपानच्छत्र - चामरासनयुतां भोजन - भाजन - जलपात्र - पंचवर्णवितान - केशप्रसाधन्यंजनशलाका - पुष्पमालासहितां उचितोपस्करां अंगिरोदैवत्यां श्रीलक्ष्मीनारायणप्रतिमासहितां अमुकगोत्राय अमुकशर्मणे सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे न मम इति ब्राह्मणहस्ते साक्षतकुशोदकं प्रक्षिपेत् ‘ तत्सांगतासिद्ध्यर्थं सौवर्णीं दक्षिणां च संप्रददे ’ इति दद्यात् ॥ इति बृहच्छय्यादानम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP