संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| अश्मबद्धश्मशानोत्सर्गः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - अश्मबद्धश्मशानोत्सर्गः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत अश्मबद्धश्मशानोत्सर्गः Translation - भाषांतर यजमानः आचम्य पवित्रपाणिर्देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रस्य अमुकवर्मणः मम पितुः उत्तमलोकप्राप्त्यर्थं वंशाभिवृद्ध्यर्थं च श्मशाने शिलाबद्धपितृस्थलोत्सर्गं करिष्ये तदंगतया गणेशपूजनं स्वस्तिवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यावरणं च करिष्ये इति संकल्प्य तानि कृत्वा वृताचार्यः देशकालौ संकीर्त्य अस्मिन् शिलाबद्धश्मशानोत्सर्गाख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये इति संकल्प्य शरीरशुद्धिपूर्वकं सर्षपविकिरणादि भूप्रादेशांतं कुर्यात् । ततः अश्मबद्धपितृस्थलात्पश्चिमतो गोमयादिलिप्तायां भूमौ रंगवल्यादिभिः स्वस्तिकं कृत्वा तदुपरि ‘ सर्वसस्याश्रया भूमिः, इत्यादि मंत्रैर्विधिवात्कलशं संस्थाप्य तत्पूर्णपात्रे यथाशक्ति सौवर्णीं पितृप्रतिमां - ‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकामयहस्ता नमोस्तु वः ॥ पितृनावाहयामि ’ इत्यावाह्य षोडशोपचारैः संपूज्य तत्पश्चिमे देशे कुंडे स्थंडिले वा बलवर्धननामानमग्निं प्रतिष्ठाप्य तदैशान्यां ग्रहान् कलशं च संस्थाप्य पूजयेत् । ततो यजमानोऽश्मबद्धपितृस्थलपाषाणं संस्नाप्य ‘ पितृदेवताभ्यो नमः ध्यायामि ’ इति षोडशोपचारैः संपूजयेत् । तत आचार्यस्तत्परितोऽष्टदिक्षु पूर्वादिक्रमेण अष्टौ कलशान् विधिवत् स्थापयित्वा तेषु पंचरत्नानि सप्तमृत्तिका अष्टधान्यानि दशौषधीः पंचत्वचः पंचपल्लवांश्च निक्षिप्य पूर्णपात्रनिधानांतं कृत्वा सर्वेष्वपि वरुणमावाह्य पूजयेत् । ततो अश्मबद्धपितृस्थलं त्रिसूत्र्या संवेष्ट्याऽन्वादध्यात् । अद्येत्यादि० समिदद्वयं गृहीत्वा क्रियमाणे अश्मबद्धपितृस्थलोत्सर्गांगहोमे देवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा । अत्र प्रधानं - आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अर्कादियथालाभसमित्तिलाज्याहुतिभिरष्टाष्टसंख्याभिः अधिदेवताः प्रत्यधिदेवताश्च तैरेव द्रव्यैः प्रत्येकं प्रतिद्रव्यं चतुश्चतुः संख्याभिराहुतिभिः, क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्च तैरेव द्रव्यैः प्रत्येकं प्रतिद्रव्यं द्वाभ्याद्वाभ्यामाहुतिभ्यां यक्ष्ये । पुनरत्र प्रधानं - पितृन् समित्तिलमिश्रतंदुलाज्यद्रव्यैः प्रत्येकंप्रतिद्रव्यं अष्टोत्तरसहस्राष्टोत्तरशताष्टाविंशत्यन्यतमसंख्याभिराहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादिचक्षुषीहोमांतंकृत्वा यजमानेन यथान्वाधानं द्रव्यत्यागे कृते ऋत्विग्ब्भिर्यथाऽन्वाधानं ग्रहहोमपूर्वकं प्रधानदेवताहोमं कुर्यात् ।‘ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयहस्ता नमोऽस्तु वः ’ इति मंत्रेणपितृदेवताहोमांते N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP