संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| निधनशान्तिः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - निधनशान्तिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत निधनशान्तिः Translation - भाषांतर तत्रादौ दक्षिणावस्त्रालंकारादिभिराचार्यं पूजयेत् आचम्य देशकालौ संकीर्त्य मम पितुः अमुकस्य वा और्ध्वदेहिककर्मणः सांगतासिद्ध्यर्थं आचार्यपूजां करिष्ये इति संकल्प्य यथाविभवं आचार्यं संपूज्य यथाशक्ति दक्षिणां दत्त्वा तत्पादौ शिरो निधाय आचार्यः - अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ इत्याशीः श्लोकं पठित्वा यजमानशिरसि दूर्वांप्रक्षेपं कुर्यादित्याचारः ॥ ततः आचम्य देशकालौ संकीर्त्य मम सकुटुंबस्य सपरिवारस्य सकलारिष्टशांतिपूर्वकक्षेमायुः सुखसिद्ध्यर्थं शांतोदकाख्यं ( निधनशांत्याख्यं वा ) कर्म करिष्ये ॥ तदंगत्वेन आदौ गणपतिपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य स्वस्तिवाचनं कुर्यात् । तत्र ‘ मह्यं ’ इत्यादि वाक्येषु ‘ शांतोदकाख्यकर्मणः पुण्याहं भवंतो ब्रुवंतु ’ इत्याद्यूहः कार्यः । ततः देवतास्तोत्रमंत्रैश्च मंत्रितकलशोदकेन सुरास्त्वेत्यादिमंत्रैरभिषिच्य तेनोदकेन गृहं प्रोक्षयेत् ततस्तत्तद्धारणभक्षणाधिकारसिद्ध्यर्थं चंदनं पुष्पं फलं तांबूलं गुडं पंचदानानि दत्त्वा तिलकधारणादि कृत्वा यथाशक्ति भूयसीं दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ इति शांतोदकविधिः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP