संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
उदकुंभश्राद्धम्

अथान्त्येष्टिप्रयोगः - उदकुंभश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च त्रयोदशाहादारभ्य वर्षपर्यंतं कार्यं प्रत्यहं उदकुंभदानाशक्तौ प्रतिमासं तदशक्तौ एकस्मिन्नेव दिनगणनया युगपदेवोदकुंभा देयाः । अदैवं पुनर्भोजनादि नियमरहितम् । आचम्य देशकालौ स्मृत्वा अपसव्यं ‘ अस्मत्पितृ - पितामह - प्रपितामहानां अमुकवर्मणां अमुकगोत्राणां वसुरुद्रादित्यस्वरुपाणां ( सव्यं ) एतेषां तृप्त्यर्थं अमुकस्य उदकुंभश्राद्धं करिष्ये ’ तूष्णीं तिलोदकं कृत्वा ब्राह्मणं संपूज्य पात्रे सामान्नमुदकुंभं निधाय अपसव्यं ‘ विष्णो इदं सामान्नोदकुंभं रक्षस्व अस्मत्पितृपितामहप्रपितामहेभ्यः अमुकगोत्रेभ्यः अमुकवर्मभ्यः वसुरुद्रादित्यस्वरुपेभ्यः इममुदकुंभं सामं यथाशक्तिसोपस्करं सदक्षिणं मम पितृप्रीत्यर्थ अमृतरुपेण संपद्यतां नमो नमः ( सव्यं ) एको विष्णु० अनेन मम पितुरुदकुंभश्राद्धेन भगवान् श्रीपरमेश्वरः प्रीयतां तत आचम्य भुंजीत ॥ द्वादशाहे सपिंडनाभावे कालांतरसपिंडनेऽपि एकोद्दिष्टविधिनेदं कार्यम् ॥ इति उदकुंभश्राद्धविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP