संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| अथैकादशाहकृत्यम् अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - अथैकादशाहकृत्यम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत अथैकादशाहकृत्यम् Translation - भाषांतर एकादशाहे प्रातरुत्थाय गृहोपलेपनादि कृत्वा स्नात्वा पंचगव्यं प्राशयेत् । तत्रादौ आचम्य देशकालौ संकीर्त्य मम पितुः अमुकस्याप्तस्य वा शावाशौचनिवृत्त्यर्थं पंचगव्यप्राशनार्थे पंचगव्यहोमं करिष्ये तद्धोमं कर्तुं च स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलं गोमयेनोपलिप्योल्लिख्य विटनामानमग्निं प्रतिष्ठाप्य ध्यात्वा परिसमूहनपरिस्तरणपर्युक्षणादि कृत्वा ‘ अग्नये नमः ’ इत्यादिमंत्रैरग्न्यर्चनं कृत्वा ताम्रपात्रे पंचगव्यं कृत्वा उल्मुकेनावज्वल्य तूष्णीं समिधमग्नावाधाय ‘ प्रजापतय इदं न मम ’ ततः पंचगव्यहोमः । तत्र मंत्राः - पृथिव्यै नमः पृथिव्या इदं न मम ( एवमग्रेऽपि त्यागः ) विष्णवे० रुद्राय० ब्रह्मणे० अग्नये० सोमाय० सूर्याय० प्रजापतये० प्रजापतये० अग्नये स्विष्टकृते० इति दशाहुतीर्हुत्वा परिस्तरणानि विसृज्य परिसमूहनपर्युक्षणे कृत्वा अग्निमलंकृत्य विभूतिं धृत्वा यस्य स्मृत्या च नामोक्त्या० अनेन पंचगव्यहोमाख्येन कर्मणा भगवान् श्रीपरमेश्वरः प्रीयताम् । विष्णवे नमः ३। इति पंचगव्यहोमः ॥ अयं कृताकृतः । ततः अद्येत्यादि० मम शावाशौचनिवृत्त्यर्थं शरीरशुद्ध्यर्थं पंचगव्यप्राशनं करिष्ये यत्त्वगस्थिगतं पापं० इतिमंत्रेण प्राश्याचामेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP