संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| वृषोत्सर्गः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - वृषोत्सर्गः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत वृषोत्सर्गः Translation - भाषांतर अत्राचार्यवरणं नास्ति काम्यवृषोत्सर्गवत् स्वयमेव कुर्यात् अयं च गृहे न कार्यः । आचम्य देशकालौ स्मृत्वा अपसव्यम् अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहात् अद्य एकादशेऽहनि वृषोत्सर्गं करिष्ये तदंगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलं गोमयेनोपलिप्योल्लिख्य अध्वरनामानमग्निं प्रतिष्ठाप्य ‘ सप्तहस्तश्चतुः शृंगः ’ इति ध्यात्वा अन्वाधानं कुर्यात् । समिदद्वयमादाय देशकालौ संकीर्त्य क्रियमाणे वृषोत्सर्गहोमे देवतापरिग्रहार्थं अन्वाधानं करिष्ये अस्मिन्नन्वाहितेऽग्नावित्यादि चक्षुषी आज्येनेत्यंते अत्र प्रधानं - रुद्रं चरुणा, सोमं पायसेन, इंद्रं यावकेन शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयमग्नौ प्रक्षिप्य परिसमूहनादि पर्युक्षणांतं कृत्वा अग्नेरुत्तरतो दर्भेषु चरुस्थाली - पायसस्थाली - यावकस्थाली - प्रोक्षण्यः दर्वीस्रुवावित्यादिपात्राण्यासाद्य प्रोक्षणीं प्रणीतां च संस्कृत्य ते पवित्रे चरुपात्रे निधाय तस्मिन् तूष्णीं चतुरस्तंडुलमुष्टीन्निर्वाप्य ते पवित्रे पायसपात्रे निधाय तत्र पूर्ववन्निर्वाप्य पुनस्ते पवित्रे यावकपात्रे निधाय तत्र यवान् पूर्ववन्निर्वाप्य निर्वापक्रमेण प्रोक्षण्युदकेन तथैव प्रोक्ष्य त्रिस्त्रिः प्रक्षाल्य हविस्त्रयं सुशृतं कुर्यात् । ततस्ते पवित्रे आज्यपात्रे निधाय आज्यं संस्कृत्य पवित्रं हुत्वा आत्मनोऽग्नतो भूमिं प्रोक्षणादिसंमार्गदर्भप्रहरणांतं कृत्वा ततो हविस्त्रयमभिघार्य उदगुद्वासनादि चक्षुषी होमांतं कृत्वा प्रधानहोमं कुर्यात् । तत्रायं क्रमः - प्रथमं चरुमवदानधर्मेण स्रुच्याऽवदाय ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ रुद्राय नमः ’ इति चरुं हुत्वा ‘ रुद्रायेदं न मम ’ इति त्यागः १॥ ततः पूर्ववदवदानधर्मेण पायसं गृहीत्वा ‘ सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थितः । तस्मै नक्षत्रपतये देवाय सततं नमः । सोमाय नमः सोमायेदं० २॥ ’ ततस्तथैवावदानधर्मेण यावकं गृहीत्वा ‘ इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः । इंद्राय नमः इंद्रायेदं० ३॥ ततः स्विष्टकृदादि प्रणीताविमोकांतं कृत्वा ततः वृषवत्सतर्यभिषेकः ‘ सुरास्त्वामभिषिंचंतु ’ ( पृ० १२ ) इत्यादि मंत्रैः कार्यः । ततो वृषवत्सतर्यौ यथाशक्ति गंधाक्षतमाल्यालंकारादिभिः संपूज्य अलंकृत्य ‘ धर्मस्त्वं वृषरुपेण जगदानंदकारकः । अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ’ ॥ इत्युपस्थाय ततो वृषभं प्रदक्षिणं कृत्वा अग्नेः पूर्वत अनीय तस्य दक्षिणबाहुस्फिजि भस्मना त्रिशूलाकारमंकयित्वा वामे चक्राकारं तदुपरि तप्तलोहेनांकयेत् । व्रजंतमेवमनुमंत्रयेच्च - अयं हि वो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः ॥ ‘ शांतिः शांतिः शांतिः ’ इति त्रिवारमुदकं क्षिप्त्वा ‘ सर्वतो व्रजस्व ’ इति ब्रूयात् । ततो वृषं पूर्वाभिमुखं कृत्वा ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ ’ अनया वत्सतर्या सह तृणं भक्ष जलं पिब यथासुखं क्रीडस्व सर्वतो व्रजस्व ’ इति वदेत् । ततो दक्षिणाभिमुखं कृत्वा ‘ रुद्रो देवो वृषारुढः ’ इति पूर्वश्लोकं पठित्वा ‘ अनया वत्सतर्या सह ’ इति प्राग्वदुक्त्वा ततः पश्चिमाभिमुखं कृत्वा पूर्ववत् श्लोकं पठित्वा ‘ अनया वत्सतर्या सह ’ इति प्राग्वद्वदेत् । तत उत्तराभिमुखं कृत्वा तथैव पूर्वश्लोकं पठित्वा ‘ अनया वत्सतर्या ’ इति प्राग्वद्वदेत् । ततः कुशतिलहेमजलयुतं वृषपुच्छमादाय ‘ अमुकगोत्राय अमुकप्रेताय इदं वृषपुच्छोदकं उपतिष्ठतां इति तर्पणं कुर्यात् । ततः प्रार्थयेदेवम् - ‘ धर्मस्त्वं वृषरुपेण जगदानंदकारकः । अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ॥ वृषो हि भगवान् धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या प्रेतं स्वर्गं नयत्वसौ ॥ अयं हि वो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः । वृष एष मया दत्तस्त्वां तारयतु सर्वदा ’ ॥ इति प्रार्थयेत् । ततः परिस्तरणादि विसृज्य कर्मशेषं समाप्य अद्येत्यादि० कृतस्य वृषोत्सर्गकर्मणः सांगतासिद्ध्यर्थं रुद्रसोमेंद्रप्रीत्यर्थं ब्राह्मणेभ्यः यथाशक्ति सोपस्करं आमान्नत्रयं दातुमहमुत्सृजे तथा वृषोत्सर्गकर्मणः सांगतासिद्ध्यर्थं तिलानुदकुंभं वासो गां हिरण्यं च ब्राह्मणेभ्यो दातुमहमुत्सृजे इति दद्यात् । यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति वृषोत्सर्गः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP