संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः Translation - भाषांतर धनिष्ठापंचके यदि मृतस्तदा तद्विधिपूर्वको दाहः कार्यः । स यथा - देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य धनिष्ठापंचकमरणसूचितवंशारिष्टनिरसनार्थं प्रेतस्योत्तमगतिप्राप्त्यर्थं पंचकमरणविधिं करिष्ये इति संकल्प्य प्रेतस्य मुखे आज्यबिंदून् प्रक्षिप्य दर्भमयाः पंच प्रतिमाः कृत्वा ऊर्णासूत्रेण सवेष्ट्य यवपिष्टेनानुलिप्य गंधमाल्यैरलंकृत्य प्रेतांगेषु न्यसेत् । तत्र प्रथमां शिरसि द्वितीयां नेत्रयोः तृतीयां वामकुक्षौ चतुर्थीं नाभौ पंचमीं पादयोः एवं निधाय तदुपरि नाममंत्रैर्घृताहुतीर्जुहुयात् । तत्र नामानि ‘ क्रमेण प्रेतवाहाय नमः प्रेतसखाय नमः प्रेताय० प्रेतभूमिपाय० प्रेतहर्त्रे नमः ’ इति ॥ तत उदकं दत्त्वा ‘ यमाय नमः रुद्राय नमः ’ इति मंत्राभ्यां प्रत्येकमाज्याहुतिद्वयं जुहुयात् । ततः पुत्तलैः सह विधिना प्रेतं दहेत् । आशौचांते पंचकशांतिं कुर्यात् एवं त्रिपादऋक्षेऽपि पिष्टमयपुत्तलत्रयं कृत्वा तेन सह प्रेतं दहेत् शांतिर्नावश्यकी । पंचके मृतस्य अश्विन्यादिषु दाहप्राप्तौ शांतिकमेवाशौचांते कार्यम् न पुत्तलविधिः ॥ इति पंचकमरणविधिः ॥ ततोऽग्निप्रज्वलनं कुर्यात् । तत्र मंत्रौ वाराहे - कृत्वा तु दुष्कृतं कर्म जानता वाऽप्यजानता । मृत्युकालवशं प्राप्य नरं पंचत्वमागतम् ॥ धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि दिव्यान् लोकान्स गच्छतु ॥ इति मंत्राभ्यां पुंसः शिरो देशे स्त्रियाः पाददेशेऽग्निं दद्यात् । ततश्चितौ वस्त्रेण वायुः कार्यः, तत्र मंत्रः - त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः । उक्तः संहारकस्तस्मादेनं स्वर्गं मृतं नय ॥ ततः कपालमोक्षानंतरं जलपूरितमृन्मयकुंभं सव्यांसे गृहीत्वा अश्मना तस्य पृष्ठभागे छिद्रं कृत्वा पादतोऽप्रदक्षिणं त्रिः परिव्रजन् मंत्रं पठेत् - ‘ अयोध्या मथुरा माया काशी कांची अवंतिका ॥ पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः । ’ इति मंत्रेण प्रतिप्रदक्षिणं छिद्रं कुर्यात् । एवं त्रिः प्रदक्षिणीकृत्य प्रेतशिरोदेशे कुंभं स्फोटयित्वा पृष्ठतोऽनवेक्षमाणाः कनिष्ठपुरः सराः सव्यमावृत्य निर्गच्छेयुः । यत्र जलप्रवाहोदकं भवति तत्र गत्वा सर्वे स्नात्वा कर्ता आचम्य अश्मानं स्नापयित्वा दक्षिणाग्रकुशेषु निधाय तस्योपरि सतिलांजलित्रयं दक्षिणहस्तेन पितृतीर्थेन दद्यात् । यथा - अमुकगोत्र अमुकप्रेत दाहजनिततापोपशमनार्थं एष तिलतोयांजलिस्तवोपतिष्ठताम् । इत्यश्मनि त्रिवारं दद्यात् । ततः ‘ अमुकगोत्र अमुकप्रेत दाहजनिततृषोपशमनार्थं इदं ते वासोदकमुपतिष्ठतां ’ इत्यश्मनि वासोदकं दद्यात् । शववाहकाः सगोत्रिणः स्त्रियोऽपि मातापितृगुर्वाचार्यमातामहमातामहीभ्यो दद्युः । अन्ये सुह्रदो दद्युर्न वा । दाने तु नाश्मनियमः पतितव्रात्यादयो न दद्युः क्षत्रिया उदड्मुखाः शूद्रब्राह्मणादयो दक्षिणमुखा दद्युः । ततो बालपुरः सरा गृहं गत्वा निंबपत्राणि भक्षयित्वा दूर्वां अग्न्युदकगोमूत्रगोमयादि स्पृष्टा अश्मनि पादं दत्त्वा गृहं प्रविशेयुः । तद्दिने गृहपाचितं न भोक्तव्यं भोजनकाले भक्तमुष्टिं प्रेतस्य नामगोत्रमुच्चार्य भूमौ दत्त्वा उदकं दद्यात् । केचित्सायमुपरिपात्रे उदकं निधाय ‘ अमुकप्रेत अत्र स्नाहि ’ द्वितीयपात्रे दुग्धं निधाय ‘ इदं पिब ’ इत्याहुः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP