संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ रुद्रगणश्राद्धम्

अथान्त्येष्टिप्रयोगः - अथ रुद्रगणश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च रुद्ररुपीप्रेतोद्देशेनापसव्येन रुद्रोद्देशेन सव्येन वा कुर्यात् । आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहादद्य एकादशेऽहनि रुद्रगणश्राद्धं करिष्ये तदंगक्षणादि करिष्ये । दर्भबटौ - अजैकपादहिर्बुध्न्य - कपालि - रुद्र - वृषाकपि - शंभु - कपर्दि - रैवत - बहुरुप - त्र्यंबकापराजितरुपिन् अमुकगोत्र अमुकप्रेत रुद्रगणश्राद्धे अयं ते क्षणमुपतिष्ठतां अजैकपादाद्येकादशरुद्ररुपिन् अमुकगोत्र अमुकप्रेत इदं ते पाद्यमुपतिष्ठताम् एवं आसनपाद्यार्घ्यगंधपुष्प तुलसीभृंगराजपत्राच्छादनानि दत्त्वा अजैकपादाद्येकादशरुद्ररुपिणे अमुकगोत्राय अमुकप्रेताय रुद्रगणश्राद्धे इदं आमान्नं यथाशक्तिसोपस्करं सोदकुंभं सदक्षिणं अमृतरुपमुपतिष्ठतां अभिरम्यतामिति विसर्जयेत् ॥ इति रुद्रगणश्राद्धम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP