संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
तृतीयदिनकृत्यम्

अथान्त्येष्टिप्रयोगः - तृतीयदिनकृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य संकल्पादि कृत्वा अमुकगोत्रस्येत्यादि० तृतीयदिनविधिं करिष्ये ततो मृत्तिकास्नानादि आमान्नसंकल्पांतं प्राग्वत्कृत्वा अद्येत्यादि० अमुकगोत्राय अमुकप्रेताय भुजवक्षोग्रीवावयवनिष्पत्त्यर्थं अयं पिंड इत्यादिपिंडप्रवाहणांतं कृत्वा स्नायात् ॥ अथ विषमश्राद्धम् ॥ आचम्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहादद्य तृतीयेऽहनि विषमश्राद्धं करिष्ये तूष्णीं तिलोदकं कृत्वा क्षणपाद्यासनादिपिंडप्रवाहणांतं सर्वं प्राग्वत्कुर्यात् ॥ इति तृतीयदिनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP