संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| भुक्तिः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - भुक्तिः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः भुक्तिः Translation - भाषांतर लिखितं साक्षिणो भुक्तिः प्रमाणत्रयं इष्यते ।प्रमाणेषु स्मृता भुक्तेः सल्लेखसमता नृणाम् ॥३१३॥रथ्यानिर्गमनद्वार जलवाहादिसंशये ।भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः ॥३१४॥अनुमानाद्गुरुः सक्षी साक्षिभ्यो लिखितं गुरु ।अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥३१५॥नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा ।पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः ॥३१६॥भुक्तिस्तु द्विविधा प्रोक्ता सागमानागमा तथा ।त्रिपुरुषी या स्वतन्त्रा सा चेदल्पा तु सागमा ॥३१७॥मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।त्रिभिरेतैरविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ॥३१८॥सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् ।आहर्ता लभते तत्तु नापहार्यं तु तत्क्वचित् ॥३१९॥प्रनष्टागमलेख्येन भोगारूढेन वादिना ।कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥३२०॥स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ॥३२१॥आदौ तु कारणं मध्ये भुक्तिस्तु सागमा (?) ।कारणं भुक्तिरेवैका संतता या त्रिपौरुषी ॥३२२॥आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान्विशोधयेत् ।तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ॥३२३॥येनोपात्तं हि यद्द्रव्यं सोऽभियुक्तस्तदुद्धरेत् ।चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते ॥३२४॥चिरन्तनं अविज्ञातं भोगं लोभान्न चालयेत् ॥३२५॥पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥३२६॥त्रिभिरेव तु या भुक्ता पुरुषैर्भू यथाविधि ।लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥३२७॥यथा क्षीरं जनयति दधि कालाद्रसान्वितम् ।दानहेतुस्तथा कालाद्भोगस्त्रिपुरुषागतः ॥३२८॥भुक्तिर्बलवती शास्त्रे संतता या चिरन्तनी ।विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता ॥३२९॥न भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च ।बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् ॥३३०॥ब्रह्मचरी चरेत्कश्चिदव्रतं षट्त्रिंशदाब्दिकम् ।अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः ॥३३१॥समावृत्तोऽव्रती कुर्यात्स्वधनान्वेषणं ततः ।पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः ॥३३२॥प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः ।शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥३३३॥सुहृद्भिर्बन्धुभिश्चैषां यत्स्वं भुक्तं अपश्यताम् ।नृपापराधिनां चैव न तत्कालेन हीयते ॥३३४॥सनाभिभिर्बान्धवैश्च यद्भुक्तं स्वजनैस्तथा ।भोगात्तत्र न सिद्धिः स्याद्भोगं अन्यत्र कल्पयेत् ॥३३५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP