संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| प्रतिभूविधानम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - प्रतिभूविधानम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः प्रतिभूविधानम् Translation - भाषांतर दानोपस्थानवादेषु विश्वासशपथाय च ।लग्नकं कारयेदेवं यथायोगं विपर्यये ॥५३०॥दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् ।निबन्धं आवहेत्तत्र दैवराजकृतादृते ॥५३१॥नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥५३२॥काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् ।स तं अर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते ॥५३३॥गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् ।विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः ॥५३४॥यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।अदर्शयन्स तं तस्मै प्रयच्छेत्स्वधनादृणम् ॥५३५॥आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥५३६॥एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः ।मृते पितरि पितृअंशं परर्णं न बृहस्पतिः ॥५३७॥एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते ।प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ॥५३८॥प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति ॥५३९॥यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु ।साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् ॥५४०॥सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् ।अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् ॥५४१॥पित्रादिभिः कृतं ऋणं केन प्रतिदेयम्कुटुम्बार्थं अशक्तेन गृहीतं व्याधितेन वा ।उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् ॥५४२॥कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥५४३॥ऋणं पुत्रकृतं पित्रा न देयं इति धर्मतः ।देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् ॥५४४॥प्रोषितस्यामतेनापि कुटुम्बार्थं ऋणं कृतम् ।दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ॥५४५॥भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् ।ऋणं एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥५४६॥मर्तुकामेन या भर्त्रा प्रोक्ता देयं ऋणं त्वया ।अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् ॥५४७॥विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा ।विंशात्संवत्सराद्देयं ऋणं पितृकृतं सुतैः ॥५४८॥व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।ऋणं एवंविधं पुत्राञ् जीवतां अपि दापयेत् ॥५४९॥सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् ।जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ॥५५०॥पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् ।विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् ॥५५१॥नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् ।काले तु विधिना देयं वसेयुर्नरकेऽन्यथा ॥५५२॥अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् ।स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ॥५५३॥यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।सदोषं व्याहतं पित्रा नैव देयं ऋणं क्वचित् ॥५५४॥पित्रा दृष्टं ऋणं यत्तु क्रमायातं पितामहात् ।निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः ॥५५५॥पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः ।तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् ॥५५६॥ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः ।द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् ॥५५७॥यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् ।तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा ॥५५८॥पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते ॥५५९॥पुत्राभावे तु दातव्यं ऋणं पौत्रेण यत्नतः ।चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते ॥५६०॥प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् ।पुत्रेणापि समं देयं ऋणं सर्वत्र पैतृकम् ॥५६१॥रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ॥५६२॥यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः ।सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः ॥५६३॥लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् ।परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् ॥५६४॥यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा ।उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् ॥५६५॥स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् ।अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥५६६॥निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः ।तत्स्त्रीणां उपभोक्ता तु दद्यात्तदृणं एव हि ॥५६७॥शौण्डिकव्याधजनक गोपनाविकयोषिताम् ।अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ॥५६८॥न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः ॥५६९॥अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ॥५७०॥अमतेनैव पुत्रस्य प्रधना यान्यं आश्रयेत् ।पुत्रेणैवापहार्यं तद् धनं दुहितृभिर्विना ॥५७१॥ऋणार्थं आहरेत्तन्तुं न सुखार्थं कदाचन ।अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् ॥५७२॥या स्वपुत्रं तु जह्यात्स्त्री समर्थं अपि पुत्रिणी ।आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः ॥५७३॥बालपुत्राधिकार्था च भर्तारं यान्यं आश्रिता ।आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः ॥५७४॥दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् ।जीवतां अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ॥५७५॥व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते ।द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥५७६॥पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् ।योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ॥५७७॥देयं भार्याकृतं ऋणं भर्त्रा पुत्रेण मातृकम् ।भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् ॥५७८॥देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् ।कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् ॥५७९॥अधर्मणिकस्यावरोधादिना धनोद्धारविचारधार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि ।यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा ॥५८०॥विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः ।पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥५८१॥स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने ।आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥५८२॥यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् ।स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥५८३॥न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥५८४॥पीडनेनोपरोधेन साधयेदृणिकं धनी ।कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ॥५८५॥आददीतार्थं एवं तु व्याजेनाचरितेन च ।कर्मणा क्षत्रविश्शूद्रान्समहीनांश्च दापयेत् ॥५८६॥राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ॥५८७॥वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः ।देशाचारेण दाप्याः स्युर्दुष्टान्संपीड्य दापयेत् ॥५८८॥पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् ।तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् ॥५८९॥यदि ह्यादावनादिष्टं अशुभं कर्म कारयेत् ।प्राप्नुयात्साहसं पूर्वं ऋणान्मुच्येत चर्णिकः ॥५९०॥उद्धारादिकं आदाय स्वामिने न ददाति यः ।स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे ॥५९१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP