संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| लेख्यम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - लेख्यम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः लेख्यम् Translation - भाषांतर लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥२४९॥ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् ।स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ॥२५०॥उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् ।स्मरत्येवं प्रयुक्तस्य नश्येदर्थस्त्वलेखितः ॥२५१॥लेख्यं तु साक्षिमत्कार्यं अविलुप्ताक्षरक्रमम् ।देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥२५२॥वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् ॥२५३॥चात्रुविद्यपुरश्रेणी गणपौरादिकस्थितिः ।तत्सिध्यर्थं तु यल्लेख्यं तद्भवेत्स्थितिपत्रकम् ॥२५४॥अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥२५५॥उत्तमेषु समस्तेषु अभिशापे समागते ।वृत्तानुवादलेख्यं यत्तज्ज्ञेयं सन्धिपत्रकम् ॥२५६॥सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥२५७॥राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा ।राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥२५८॥अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक्तथा ।निर्णयश्च यथा तस्य यथा चावधृतं स्वयम् ॥२५९॥एतद्यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् ।अभियोक्तृअभियुक्तानां वचनं प्राङ्निवेशयेत् ॥२६०॥सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ।निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥२६१॥सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ॥२६२॥सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।यथालेख्यविध्हौ तद्वत्स्वहस्तं तत्र दापयेत् ॥२६३॥अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः ।निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥२६४॥अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते ।वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥२६५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP