संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| प्रकीर्णकम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - प्रकीर्णकम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः प्रकीर्णकम् Translation - भाषांतर पूर्वोक्तादुक्तशेषं स्यादधिकारच्युतं च यत् ।आहृत्य परतन्त्रार्ह्त निबद्धं असमञ्जसम् ॥९४४॥दृष्टान्तत्वेन शास्त्रान्ते पुनरुक्तक्रियास्थितम् ।अनेन विधिना यच्च वाक्यं तत्स्यात्प्रकीर्णकम् ॥९४५॥राजधर्मान्स्वधर्मांश्च संदिग्धानां च भाषणम् ।पूर्वोक्तादुक्तशेषं च सर्वं तत्स्यात्प्रकीर्णकम् ॥९४६॥सद्भागकरशुल्कं च गर्ते देयं तथैव च ।संग्रामचौरभेदी च परदाराभिमर्दनम् ॥९४७॥गोब्राह्मणजिघांसा च शस्यव्याघातकृत्तथा ।एतान्दशापराधांस्तु नृपतिः स्वयं अन्विषेत् ॥९४८॥निष्कृतीनां अकरणं आज्ञासेधव्यतिक्रमः ।वर्णाश्रमविलोपश्च प्रर्णसङ्करलोपनम् ॥९४९॥निधिर्निष्फलवित्तं च दरिद्रस्य धनागमः ।एतांश्चारैः सुविदितान्स्वयं राजा निवारयेत् ॥९५०॥अनाम्ना तानि कार्याणि क्रियावादांश्च वादिनाम् ।प्रकृतीनां प्रकोपश्च सङ्केतश्च परस्परम् ॥९५१॥अशास्त्रविहितं यच्च प्रजायां संप्रवर्तते ।उपायैः सामभेदाद्यैरेतानि शमये नृपः ॥९५२॥मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक्तपस्विनि ।यथोक्तं तस्य तत्कुर्यादनुक्तं साधु कल्पितम् ॥९५३॥प्रमाणेन तु कूटेन मुद्रया वापि कूटया ।कार्यं तु साधयेद्यो वै स दाप्यो दमं उत्तमम् ॥९५४॥राजक्रीडासु ये सक्ता राजवृत्त्युपजीविनः ।अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ॥९५५॥प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश्च ये ।राजार्थमोषकाश्चैव प्राप्नुयुर्विविधं वधम् ॥९५६॥प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा ।वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ॥९५७॥सचिह्नं अपि पापं तु पृच्छेत्पापस्य कारणम् ।तदा दण्डं प्रकल्पेत दोषं आरोप्य यत्नतः ॥९५८॥सद्वृत्तानां तु सर्वेषां अपराधो यदा भवेत् ।अवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् ॥९५९॥सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि ।आरम्भे प्रधमं दद्यात्प्रवृत्तौ मध्यमः स्मृतः ।यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ॥९६०॥राजानो मन्त्रिणश्चैव विशेषादेवं आप्नुयुः ।अशासनात्तु पापानां नतानां दण्डधारणात् ॥९६१॥परतन्त्राश्च ये केचिद्दासत्वं ये च संस्थिताः ।अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् ॥९६२॥ताडनं वन्धनं चैव तथैव च विडम्बनम् ।एष दण्डो हि दासस्य नार्थदण्डो विधीयते ॥९६३॥सुवर्णशतं एकं तु वधार्हो दण्डं अर्हति ।अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् ॥९६४॥कुलीनार्यविशिष्ट्तेषु निकृष्टेष्वनुसारतः ।सर्वस्वं वा निगृह्यैतान्पुरात्शीघ्रं प्रवासयेत् ॥९६५॥निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् ।सर्वेषां पापयुक्तानां विशेषार्थश्च शास्त्रतः ॥९६६॥वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् ।तदकर्मवियुतोऽसौ वृत्तस्तस्य दमो हि सः ॥९६७॥कूटसाक्ष्यपि निर्वास्यो विख्याप्योऽसत्प्रतिग्रही ।अङ्गच्छेदी वियोज्यः स्यात्स्वधर्मे बन्धनेन तु ॥९६८॥एतैः समापराधानां तत्राप्येवं प्रकल्पयेत् ।बालवृद्धातुरस्त्रीणां न दण्डस्ताडनं दमः ॥९६९॥स्त्रीधनं दापयेद्दण्डं धार्मिकः पृथिवीपतिः ।निर्धना प्राप्तदोषा स्त्री ताडनं दण्डं अर्हति ॥९७०॥अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् ।कार्यार्थे कार्यनाशः स्याद्बुद्धिमान्नोपपातयेत् ॥९७१॥दत्त्वा धनं तद्विप्रेभ्यः सर्वं दण्डसमुत्थितम् ।पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥९७२॥एवं चरेत्सदा युक्तो राजा धर्मेषु पार्थिवः ।हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ॥९७३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP