संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| ऋणोद्धरणं कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - ऋणोद्धरणं स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः ऋणोद्धरणं Translation - भाषांतर अनेकर्णसमवाये विधिःएकाहे लिखितं यत्तु तत्तु कुर्यादृणं समम् ।ग्रहणं रक्षणं लाभं अन्यथा तु यथाक्रमम् ॥५१३॥नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् ।तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु ॥५१४॥यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।तद्द्रव्यं ऋणिकेनैव दातव्यं तस्य नान्यथा ॥५१५॥आधिःद्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् ।जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते ।मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकं आप्नुयात् ॥५१६॥आधिं एकं द्वयोर्यस्तु कुर्यात्का प्रतिपद्भवेत् ।तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥५१७॥आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा ।एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥५१८॥अनिर्दिष्टं च निर्दिष्टं एकत्र च विलेखितम् ।विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ॥५१९॥योऽविद्यमानं प्रथमं अनिर्दिष्टस्वरूपकम् ।आकाशभूतं आदध्यादनिर्दिष्टं च तद्भवेत् ।यद्यत्तदास्य विद्येत तदादिष्टं विनिर्दिशेत् ॥५२०॥यस्तु सर्वस्वं आदिश्य प्राक्पश्चान्नामचिह्नितम् ।आदध्यात्तत्कथं न स्याच्चिह्नितं बलवत्तरम् ॥५२१॥मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् ।ग्रामादयश्च लिख्यन्ते तदा सिद्धिं अवाप्नुयात् ॥५२२॥आधीकृतं तु यत्किंचिद्विनष्टं दैवराजतः ।तत्र ऋणं सोदयं दाप्यो धनिनां अधमर्णकः ॥५२३॥न चेद्धनिकदोषेण निपतेद्वा म्रियेत वा ।आधिं अन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः ॥५२४॥अकामं अननुज्ञातं अधिं यः कर्म कारयेत् ।भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥५२५॥यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।पीडयेद्भत्सयेच्चैव प्राप्नुयात्पूर्वसाहसम् ॥५२६॥बलादकामं यत्राधिं अनिसृष्टं प्रवेशयेत् ।प्राप्नुयात्साहसं पूर्वं आधाता चाधिं आप्नुयात् ॥५२७॥आधिं दुष्टेन लेख्येन भुङ्क्ते यं ऋणिकाद्धनी ।नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् ॥५२८॥आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् ।राज्ञस्ततः स विख्यातो विक्रेय इति धारणा ।सवृद्धिकं गृहीत्वा तु शेषं राजन्यथार्पयेत् ॥५२९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP