TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
दायविभागः

कात्यायनस्मृतिः - दायविभागः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दायविभागः
सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः ।
पितरो भ्रातरश्चैव विभागो धर्म्य उच्यते ॥८३८॥

पैतामहं समानं स्यात्पितुः पुत्रस्य चोभयोः ।
स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यं अर्हति ॥८३९॥

पैतामहं च पित्र्यं च यच्चान्यत्स्वयं अर्जितम् ।
दायादानां विभागे तु सर्वं एतद्विभज्यते ॥८४०॥

दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितः ॥८४१॥

गृहोपस्करवाह्याश्च दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भृगुः ॥८४२॥

जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् ।
निर्भाजयेन्न चैवैकं अकस्मात्कारणं विना ॥८४३॥

संप्राप्तव्यवहाराणां विभागश्च विधीयते ।
पुंसां च षोडशे वर्षे जायते व्यवहारिता ॥८४४॥

अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् ।
न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च ॥८४५ः१॥

प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् ।
बालपुत्रे मृते रिक्थं रक्ष्यं तत्तन्तुबन्धुभिः ।
पौगण्डाः परतस्तं तु विभजेरन्यथांशतः ॥८४५ः२॥

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थं ऋणं कृतम् ।
विभागकाले देयं तद् रिक्थिभिः सर्वं एव तु ॥८४६॥

तदृणं धनिने देयं नान्यथैव प्रदापयेत् ।
भावितं चेत्प्रमाणेन विरोधात्परतो यदा ॥८४७॥

धर्मार्थं प्रीतिदत्तं च यदृणं स्यान्नियोजितम् ।
तद्दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् ॥८४८॥

पित्र्यं पित्र्यर्णसंशुद्धं आत्मीयं चात्मना कृतम् ।
ऋणं एवंविधं शोध्यं विभागे बन्धुभिः सह ॥८४९॥

ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् ॥८५०॥

द्व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता ।
मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥८५१॥

यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।
तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥८५२॥

लोके रिक्थविभागेऽपि न कश्चित्प्रभुतां इयात् ।
भोग एव तु कर्तव्यो न दानं न च विक्रयः ॥८५३॥

विभक्ता अविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्यनीशः सर्वत्र दानाधमनविक्रये ॥८५४॥

अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥८५५॥

लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात् ।
स एवांशस्तु सर्वेषा भ्रातॄणां न्यायतो भवेत् ।
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ॥८५६॥

उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ॥८५७॥

कन्यकानां त्वदत्तानां चतुर्तो भाग इष्यते ।
पुत्राणां तु त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ॥८५८॥

क्षेत्रिकस्य मतेनापि फलं उत्पादयेत्तु यः ।
तस्येह भागिनौ तौ तु न फलं हि विनैकतः ॥८५९॥

क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तं उत्पादकस्य सः ॥८६०॥

न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ॥८६१॥

अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते ।
प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति ॥८६२॥

अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः ।
असवर्णप्रसूतश्च क्रमोढायां च यो भवेत् ॥८६३॥

प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनं अत्यन्तं देयं तद्बन्धुभिर्मतम् ॥८६४॥

बन्धूनां अप्यभावे तु पितृद्रव्यं तदाप्नुयात् ।
अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ॥८६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:28.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

KRAMAPĀṬHA(क्रमपाठ)

  • A method of teaching the Vedas. It is due to the insistence on strict adherence to this method of teaching that even after thousands of years variations have not crept into the original texts of the Vedas which form the earliest literature. There is a portion called ‘word study’ (Pada Pāṭha) in the Vedas (the scripture). Every word in the Veda is separated from its prefixes and suffixes. The second step is Kramapāṭha or the study of joining prefixes and suffixes to each word got by the first step. Next step is Jaṭāpāṭha in which words are combined with their prefixes and suffixes. To guard against the creeping in of mistakes in this step, the next step which is known as Ghanapāṭha is taught. In this step the first step of Padapāṭha and the second step of Krama pāṭha are mixed together and intermingled from beginning to end and end to beginning. There are rules to make combined words by using prefixes and suffixes. These rules are called Prātiśākhya. Because the Vedas are taught in this way with so much attention and care, their texts have never been subjected to changes and variations. 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.