संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| साक्षिणः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - साक्षिणः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः साक्षिणः Translation - भाषांतर न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः ॥३३९॥उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् ।साक्षिभिर्भाषितं वाक्यं सभ्यैः सह परीक्षयेत् ॥३४०॥सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम् ।संदिग्धं यत्र साक्ष्यं स्यात्सद्यः स्पष्टं विवादयेत् ॥३४१॥सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ ।प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ॥३४२॥यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥३४३॥देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ॥३४४॥आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ॥३४५॥अर्थिप्रत्यर्थिसांनिध्यादनुभूतं तु यद्भवेत् ।तद्ग्राह्यं साक्षिणो वाक्यं अन्यथा न बृहस्पतिः ॥३४६॥प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः ।आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यं असंशयम् ॥३४७॥विभाव्यो वादिना यादृक्सदृशैरेव भावयेत् ।नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा ॥३४८॥लिङ्गिनः श्रेणिपूगाश्च वणिग्व्रातास्तथापरे ।समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भृगुः ॥३४९॥दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।प्रत्येकैकं समूहानां नायका वर्गिणस्तथा ।तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः ॥३५०॥स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।शूद्राश्च सन्तः शूद्राणां अन्त्यानां अन्त्ययोनयः ॥३५१॥अशक्य आगमो यत्र विदेशप्रतिवासिनाम् ।त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ॥३५२॥अभ्यन्तरस्तु निक्षेपे साक्ष्यं एकोऽपि वाच्यते ।अर्थिना प्रहितः साक्षी भवत्येकोऽपि दूतकः ॥३५३॥संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् ।एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥३५४॥लेखकः प्राङ्विवाकश्च सभ्याश्चैवानुपूर्वशः ।नृपे पश्यति यत्कार्यं साक्षिणः समुदाहृताः ॥३५५॥अन्ये पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः ।ग्रामश्च प्राङ्विवाकश्च राजा च व्यवहारिणाम् ॥३५६॥कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः ।कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥३५७॥रिक्थभागविवादे तु संदेहे समुपस्थिते ।कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ॥३५८॥साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना ।तेषां एकोऽन्यथावादी भेदात्सर्वे न साक्षिणः ॥३५९॥अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् ।तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ॥३६०॥तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।तद्बन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः ॥३६१॥मातृष्वसृसुताश्चैव सोदर्यासुतमातुलाः ।एते सनाभयस्तूक्ताः साक्ष्यं तेषु न योजयेत् ॥३६२॥कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः ।पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा ॥३६३॥नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः ॥३६४॥ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता ॥३६५॥व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः ॥३६६॥अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् ।एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः ॥३६७॥न साक्ष्यं साक्षिभिर्वाच्यं अपृष्टैरर्थिना सदा ।न साक्ष्यं तेषु विद्येत स्वयं आत्मनि योजयेत् ॥३६८॥लेख्यारूढश्चोत्तरश्च साक्षी मार्गद्वयान्वितः ॥३६९॥अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु ।न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् ॥३७०॥अर्थिना स्वयं आनीतो यो लेख्ये संनिवेश्यते ।स साक्षी लिखितो नाम स्मारितः पत्रकादृते ॥३७१॥यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ॥३७२॥प्रयोजनार्थं आनीतः प्रसङ्गादागतश्च यः ।द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥३७३॥अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् ।यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते ॥३७४॥साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषते ।श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥३७५॥उल्लप्यं यस्य विश्रम्भात्कार्यं वा विनिवेदितम् ।गूढचारी स विज्ञेयः कार्यं अध्यगतस्तथा ॥३७६॥अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः ।प्रत्यर्थी च मृतो यत्र तत्राप्येवं प्रकल्प्यते ॥३७७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP