संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्रतिज्ञास्वरूपम्

कात्यायनस्मृतिः - प्रतिज्ञास्वरूपम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥१२४॥

साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥१२५॥

क्रमात्पितॄणां नामानि पीडां चाहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥१२६॥

देशश्चैव तथा स्थानं संनिवेशस्तथैव च ।
जातिः संज्ञा निवासश्च प्रमाणं क्षेत्रनाम च ॥१२७॥

पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥१२८॥

रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदों इति लिखेत्सर्वं वादिनः फलकादिषु ॥१२९॥

अधिकान्शोधयेदर्थान्न्यूनांश्च प्रतिपूरयेत् ।
भूमौ निवेशयेत्तावद्यावत्पक्षः प्रतिष्ठितः ॥१३०॥

पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥१३१॥

अन्यदुक्तं लिखेदन्यद्योऽर्थिप्रत्यर्थिनां वचः ।
चौरवच्छासयेत्तं तु धार्मिकः पृथिवीपतिः ॥१३२॥

सोल्लेखनं वा लभते त्र्यहं सप्ताहं एव वा ।
मतिरुत्पद्यते यावद्विवादे वक्तुं इच्छतः ॥१३३॥

यस्मात्कार्यसमारम्भाच्चिरात्तेन विनिश्चयः ।
तस्मात्न लभते कालं अभियुक्तस्तु कालभाक् ॥१३४॥

मतिर्नोत्सहते यत्र विवादे कार्यं इच्छतोः ।
दातव्यस्तत्र कालः स्यादर्थिप्रत्यर्थिनोरपि ॥१३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP