संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| अविभाज्यानि कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - अविभाज्यानि स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः अविभाज्यानि Translation - भाषांतर स्वशक्त्यपहृतं नष्टं स्वयं आप्तं च यद्भवेत् ।एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते ॥८६६॥परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥८६७॥उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् ।विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥८६८॥शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ।विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ॥८६९॥शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् ॥८७०॥परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् ।विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः ॥८७१॥विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् ।ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः ॥८७२॥विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा ।एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा ॥८७३॥कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥८७४॥नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् ।समविद्याधिकानां तु देयं वैद्येन तद्धनम् ॥८७५॥आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् ॥८७६॥शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् ।एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ॥८७७॥ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् ।संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् ।स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतं उच्यते ॥८७८॥यल्लब्धं दानकाले तु स्वजात्या कन्यया सह ।कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥८७९॥वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् ।धनं एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥८८०॥विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते ।कन्यायास्तद्धनं सर्वं अविभाज्यं च बन्धुभिः ॥८८१॥धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।उदकं चैव दासश्च निबन्धो यः क्रमागतः ॥८८२॥धृतं वस्त्रं अलंकारो नानुरूपं तु यद्भवेत् ।यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ॥८८३॥गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् ।प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ॥८८४ः१॥देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् ॥८८४ः२॥प्रच्छादितरिक्थस्य पुनर्विभागःप्रच्छादितं यदि धनं पुनरासाद्य तत्समम् ।भजेरन्भ्रातृभिः सार्धं अभावे हि पितुः सुताः ॥८८५॥अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् ।पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः ॥८८६॥विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् ।हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् ॥८८७॥बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् ।बन्धूनां अविभक्तानां भोगं नैव प्रदापयेत् ॥८८८॥क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः ।तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ॥८८९॥तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् ।जन्मनां अपरिज्ञाने लभेतांशं क्रमागतम् ॥८९०॥यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः ।तदन्वयस्यागतस्य दातव्या गोतजैर्मही ॥८९१॥विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) ।विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः ॥८९२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP