संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| व्यवहारलक्षणादि कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - व्यवहारलक्षणादि स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः व्यवहारलक्षणादि Translation - भाषांतर प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥२५॥वि नानार्थेऽव संदेहे हरणं हार उच्यते ।नानासंदेहहरणाद्व्यवहार इति स्मृतः ॥२६॥न राजा तु विशित्वेन धनलोभेन वा पुनः ।स्वयं कार्याणि कुर्वीत नराणां अविवादिनाम् ॥२७॥उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।याचं आनय दौःशील्यादाकृष्योऽसौ नृपाज्ञया ॥२८॥द्विपदे साध्यभेदात्तु पदाष्टादशतां गते ।अष्टादश क्रियाभेदाद्भिन्नान्यष्टसहस्रशः ॥२९॥साध्यवादस्य मूलं स्याद्वादिना यन्निवेदितम् ।देयाप्रदानं हिंसा चेत्युत्थानद्वयं उच्यते ॥३०॥पूर्वपक्षश्चोत्तरं च प्रत्याकलितं एव च ।क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः ॥३१॥धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयं उदाहृतम् ।जयश्चैवावसायश्च द्वे फले समुदाहृते ॥३२॥शास्त्रेण निन्दितं त्वर्थ मुख्यो राज्ञा प्रचोदितः ।आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥३३॥नृपेणैव नियुक्तो यः पददोषं अवेक्षितुम् ।नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृतः ॥३४॥धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारःदोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् ।विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः ॥३५॥स्मृतिशास्त्रं तु यत्किंचित्प्रथितं धर्मसाधकैः ।कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥३६॥यद्यदाचर्यते येन धर्म्यं वाधर्म्यं एव वा ।देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम् ॥३७॥न्यायशास्त्राविरोधेन देशदृष्टेस्तथैव च ।यं धर्मं स्थापयेद्राजा न्याय्यं तद्राजशासनम् ॥३८॥युक्तियुक्तं तु कार्यं स्याद्दिव्यं यत्र विवर्जितम् ।धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा ॥३९॥प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।विरुद्धं नियतं प्राहुस्तं धर्मं न विचालयेत् ॥४०॥निर्णयं तु यदा कुर्यात्तेन धर्मेण पार्थिवः ।व्यवहारश्चरित्रेण तदा तेनैव बाध्यते ॥४१॥विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः ।एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥४२॥अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् ।अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ॥४३॥अस्वर्ग्या लोकनाशाय परानीकभयावहा ।आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ॥४४॥तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् ।वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् ॥४५॥यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥४६॥देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् ।तेषां स्वसमयैर्धर्म शास्त्रतोऽन्येषु तैः सह ॥४७॥देशस्यानुमतेनैव व्यवस्था या निरूपिता ।लिखिता तु सदा धार्या मुद्रिता राजं उद्रया ॥४८॥शास्त्रवद्यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ।नैगमस्थैस्तु यत्कार्यं लिखितं यद्व्यवस्थितम् ॥४९॥तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् ।प्रमाणदेशदृष्टं तु यदेवं इति निश्चितम् ॥५०॥अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् ।नान्यथा तत्पुनः कार्यं न्यायापेतं विवर्जयेत् ॥५१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP