संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
उपनिधिः

कात्यायनस्मृतिः - उपनिधिः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


त्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् ।
वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः ॥५९२॥

निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् ।
दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते ॥५९३॥

यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा ।
तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना ॥५९४॥

याचितानन्तरं नाशे दैवराजकृतेऽपि सः ।
ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः ॥५९५॥

न्यासादिकं परद्रव्यं प्रभक्षितं उपेक्षितम् ।
अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥५९६॥

भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यं अज्ञाननाशितम् ॥५९७॥

अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते ॥५९८॥

ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते ॥५९९॥

ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् ।
तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यं आहरेत् ॥६००॥

ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् ।
कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ॥६०१॥

सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः ॥६०२॥

यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।
तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् ॥६०३॥

न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् ।
दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् ॥६०४॥

स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् ।
पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः ॥६०५॥

यदि तत्कार्यं उद्दिश्य कालं परिनियम्य वा ।
याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते ॥६०६॥

प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् ।
तस्मिन्नष्टे वापि ग्रहीता मूल्यं आहरेत् ॥६०७॥

याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ॥६०८॥

अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् ।
अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् ॥६०९॥

यो याचितकं आदाय न दद्यात्प्रतियाचितः ।
स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः ॥६१०॥

अनुमार्गेण कार्येषु अन्यस्मिन्वचनान्मम ।
दद्यास्त्वं इति यो दत्तः स इहान्वाधिरुच्यते ॥६११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP