संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| स्वामिपालविवादः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - स्वामिपालविवादः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः स्वामिपालविवादः Translation - भाषांतर क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु ।ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः ॥६६४॥अधमोत्तममध्यानां पशूनां चैव ताडने ।स्वामी तु विवदेद्यत्र दण्डं तत्र प्रकल्पयेत् ॥६६५॥अजातेष्वेव सस्येषु कुर्यादावरणं महत् ।दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः ॥६६६॥दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा ।तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥६६७॥समयस्यानपाकर्म संविद्व्यतिक्रमो वासमूहिनां तु यो धर्मस्तेन धर्मेण ते सदा ।प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥६६८॥अविरोधेन धर्मस्य निर्गतं राजशासनम् ।तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥६६९॥राजप्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।गर्ह्यः स पापो दण्ड्यश्च लोपयन्राजशासनम् ॥६७०॥युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः ।अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ॥६७१॥साहसी भेदकारी च गणद्रव्यविनाशकः ।उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ॥६७२॥एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् ।अकुर्वंस्तत्तथा दण्ड्यस्तस्य दोषं अदर्शयन् ॥६७३॥गणं उद्दिश्य यत्किंचित्कृत्वर्णं भक्षितं भवेत् ।आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् ॥६७४॥गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् ।प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥६७५॥तथैव भोज्यवैभाज्य दानधर्मक्रियासु च ।समूहस्थोऽंशभागी स्यात्प्रगतस्त्वंशभाङ्न तु ॥६७६॥यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।राजप्रसादलब्धं च सर्वेषां एव तत्समम् ॥६७७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP