संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| साक्षिणां दोषा दण्डाश्च कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - साक्षिणां दोषा दण्डाश्च स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः साक्षिणां दोषा दण्डाश्च Translation - भाषांतर अपृष्टः सर्ववचने पृष्टस्याकथने तथा ।साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश्च धर्मतः ॥४०२॥वाक्पारुष्ये छले वादे दप्याः स्युर्त्रिशतं दमम् ।ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा ॥४०३॥यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः ।ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥४०४॥साक्षी साक्ष्यं न चेद्ब्रूयात्समदण्डं वहेदृणम् ।अतोऽन्येषु विवादेषु त्रिशतं दण्डं अर्हति ॥४०५॥उक्त्वान्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः ॥४०६॥येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः ॥४०७॥यत्र वै भावितं कार्यं साक्षिभिर्वादिना भवेत् ।प्रतिवादी यदा तत्र भावयेत्कार्यं अन्यथा ।बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिणः ॥४०८॥यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् ।शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥४०९॥सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् ।रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा ।षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ॥४१०॥दिव्यानि तेषां च विवादपदविषयिणी व्यवस्थान कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥४११॥पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् ।आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् ॥४१२॥लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः ॥४१३॥न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन ।अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥४१४॥शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।क्रियासमूहकर्तृत्वे कोशं एव प्रदापयेत् ॥४१५॥दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥४१६॥सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥४१७॥ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ॥४१८॥षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।विंशद्दशविनाशे वै कोशपानं विधीयते ॥४१९॥पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः ।तदर्धार्धस्य नाशे तु स्पृशेत्पुत्रादिमस्तकम् ॥४२०॥तदर्धार्धस्य नाशे तु लौकिकाश्च क्रियाः स्मृताः ।एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥४२१॥दिव्यानां अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाःराजन्येऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् ।सर्वेषु सर्वदिव्यं वा विषं वरंज्य द्वियोत्तमे ॥४२२॥गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।प्रेष्यान्वार्धुषिकांश्चैव ग्राहयेच्शूद्रवद्द्विजान् ॥४२३॥न लोहशिल्पिनां अग्निं सलिलं नाम्बुसेविनाम् ।मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् ।तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् ॥४२४॥कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् ।पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥४२५॥मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥४२६॥मातापितृद्विजगुरु बालस्त्रीराजघातिनाम् ।महापातकयुक्तानां नास्तिकानां विशेषतः ॥४२७॥लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् ।वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥४२८॥एतेष्वेवाभियोगेषु निन्द्येष्वेव च यत्नतः ।दिव्यं प्रकल्प्येन्नैव राजा धर्मपरायणः ॥४२९॥एतैरेव नियुक्तानां साधूनां दिव्यं अर्हति ।नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैः ॥४३०॥महापातकयुक्तेषु नास्तिकेषु विशेषतः ।न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥४३१॥एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः ॥४३२॥अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।प्रातिलोम्यपसूतानां निश्चयो न तु राजनि ।तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥४३३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP