संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| नैगमादिसंज्ञालक्षणम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - नैगमादिसंज्ञालक्षणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः नैगमादिसंज्ञालक्षणम् Translation - भाषांतर नानापौरसमूहस्तु नैगमः परिकीर्तितः ।नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ॥६७८॥समूहो वणिजादीनां पूगः संपरिकीर्तितः ।प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ॥६७९॥ब्राह्मणानां समूहस्तु गणः संपरिकीर्तितः ।शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥६८०॥आर्हतसौगतानां तु समूहः सङ्घ उच्यते ।चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥६८१॥गणपाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा ।समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ॥६८२॥क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वाक्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितम् ।स मूल्याद्दशमं भागं दत्त्वा स्वद्रव्यं आप्नुयात् ॥६८३॥अप्राप्तेऽर्थक्रियाकाले कृते नैव प्रदापयेत् ।एवं धर्मो दशाहात्तु परतोऽनुशयो न तु ॥६८४॥भूमेर्दशाहे विक्रेतुरायस्तत्क्रेतुरेव च ।द्वादशाहः सपिण्डानां अपि चाल्पं अतः परम् ॥६८५॥क्रीत्वानुशयवान्पण्यं त्यजेद्दोह्यादि यो नरः ।अदुष्टं एव काले तु स मूल्याद्दशमं वहेत् ॥६८६॥क्रीत्वा गच्छन्ननुशयं क्रयी हस्तं उपागते ।षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद्बुधः ॥६८७॥अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् ।क्रीतं तत्स्वामिने देयं काले चेदन्यथा न तु ॥६८८॥निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति ।मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ॥६८९॥उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥६९०॥दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी ।विक्रीतं च तदन्यत्र विक्रेता नापराध्रुयात् ॥६९१॥मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर्भवेत् ॥६९२॥त्र्यहं दोह्यं परीक्षेत पत्र्चाहद्वाह्यं एव तु ।मुक्तावज्रप्रवालानां सप्ताहं स्यात्प्रवीक्षणम् ॥६९३॥द्विपदां अर्धमासं तु पुंसां तद्द्विगुणं स्त्रियाः ।दशाहं सर्वबीजानां एकाहं लोहवाससाम् ॥६९४॥अतोऽर्वाक्पण्यदोषस्तु यदि संजायते क्वचित् ।विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् ॥६९५॥परिभुक्तं तु यद्वासः क्लिष्टरूपं मलीमसम् ।सदोषं अपि तत्क्रीतं विकेतुर्न भवेत्पुनः ॥६९६॥साधारणं तु यत्क्रीतं नैको दद्यान्नराधमः ।नादद्यान्न च गृह्णीयाद्विक्रीयाच्च न चैव हि ॥६९७॥क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यवीक्षितम् ॥६९८॥द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्र्यंशांशं आहरेत् ।द्विगुणं तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥६९९॥द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यं उच्यते ।लाभश्चतुर्थो भागः स्यात्पञ्चमः सत्यं उच्यते ॥७००॥सन्धिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः ।आज्ञयापि क्रयश्चापि दशाब्दं विनिवर्तयेत् ॥७०१॥ज्ञात्यादीनननुज्ञाप्य समीपस्थाननिन्दितान् ।क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः ॥७०२॥स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् ।राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ॥७०३॥पलायिते तु करदे करप्रतिभुवा सह ।करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ॥७०४॥समवेतैस्तु सामन्तैरभिज्ञैः पापभीरुभिः ।क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥७०५॥कल्पितं मूल्यं इत्याहुर्भागं कृत्वा तदष्टधा ।एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् ॥७०६॥समाः शतं अतीतेऽपि सर्वं तद्विनिवर्तते ।क्रयविक्रयणे क्रय्यं यन्मूल्यं धर्मतोऽर्हति ॥७०७॥तत्तुर्ये पञ्चमे षष्टे सप्तमेऽंशेऽष्टमेऽपि वा ।हीने यदि विनिर्वृत्ते क्रयविक्रायणे सति ॥७०८॥हीनमूल्यं तु तत्सर्वं कृतं अप्यकृतं भवेत् ।उक्तादल्पतरे हीने क्रयो नैव प्रदुष्यति ॥७०९॥तेनाप्यंशेन हीयेत मूल्यतः क्रयविक्रये ।कतं अप्यकृतं प्राहुरन्ये धर्मविदो जनाः ॥७१०॥अर्धाधिके क्रयः सिध्येदुक्तलाभो दशाधिकः ।अवक्रयस्त्रिभागेन सद्य एव रुचिक्रयः ॥७११॥मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् ।चक्रवृद्द्यां प्रदातव्यं देयं तत्समयादृते ॥७१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP