संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| साक्षिदोषोद्भावनम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - साक्षिदोषोद्भावनम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः साक्षिदोषोद्भावनम् Translation - भाषांतर लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः ।वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ॥३७८॥उक्तेरर्थे साक्षिणो यस्तु दूषयेत्प्राग्दूषितान् ।न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ॥३७९॥नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ॥३८०॥प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने ।प्रस्तुतार्थोपयोगित्वाद्व्यवहारान्तरं न च ॥३८१॥साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना ।पत्रे विलिख्य तान्सर्वान्वाच्यः प्रत्युत्तरं ततः ॥३८२॥प्रतिपत्तौ तु साक्षित्वं अर्हन्ति न कदाचन ।अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥३८३॥अभावयन्धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥३८४॥आकारोऽङ्गितचेष्टाभिस्तस्य भावं विभावयेत् ।प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते ॥३८५॥कम्पः स्वेदोऽथ वैकल्यं ओष्ठशोषाभिमर्शने ।भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् ।स्वरभेदश्च दुष्टस्य चिह्नान्याहुर्मनीषिणः ॥३८६॥सभान्तःस्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु ॥३८७॥अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ ।प्रत्यक्षं देशयेत्सक्ष्यं परोक्षं न कथंचन ॥३८८॥अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् ।चतुष्पदेष्वयं धर्मो द्विपदस्थावरेषु च ॥३८९॥तौल्यगणिममेयानां अभावेऽपि विवादयेत् ।क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा ॥३९०॥वधे चेत्प्राणिनां साक्ष्यं वादयेच्छिवसंनिधौ ।तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥३९१॥स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् ।उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥३९२॥स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ॥३९३॥समवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव तु ।विभिन्नैकैककार्यं यद्वक्तव्यं तत्पृथक्पृथक् ॥३९४॥भिन्नकाले तु यत्कार्यं विज्ञातं तत्र साक्षिभिः ।एकैकं वादयेत्तत्र भिन्नकालं तु तद्भृगुः ॥३९५॥ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥३९६॥साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् ।स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्पितम् ॥३९७॥ऊनाधिकं तु यत्र स्यात्तत्साक्ष्यं तत्र वर्जयेत् ।साक्षी तत्र न दण्ड्यः स्यादब्रुवन्दण्डं अर्हति ॥३९८॥देशं कालं धनं संख्यां रूपं जात्याकृती वयः ।विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः ॥३९९॥निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते ।न ब्रूयादक्षरसमं न तन्निगदितं भवेत् ॥४००॥ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः ।तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः ॥४०१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP