संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| सीमाविवादः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - सीमाविवादः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः सीमाविवादः Translation - भाषांतर आधिक्यं न्यूनता चांशे अस्तिनास्तित्वं एव च ।अभोगभुक्तिः सीमा च षट्भूवादस्य हेतवः ॥७३२॥तस्मिन्भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति ।लेख्यारूढश्चेतरश्च साक्षी मार्गद्वयान्वितः ॥७३३॥क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।द्वयोर्विवादे सामन्तः प्रत्ययः सर्ववस्तुषु ॥७३४॥सामन्तभावेऽसामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् ।ग्रामसीमासु च तथा तद्वन्नगरदेशयोः ॥७३५॥ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।गृहं गृहस्य निर्दिष्ट समन्तात्परिरभ्य हि ॥७३६॥तेषां अभावे सामन्त मौलवृद्धोद्धृतादयः ।स्थावरे षट्प्रकारेऽपि नात्र कार्या विचारणा ॥७३७॥संसक्तास्त्वथ सामन्तास्तत्संसक्तास्तथोत्तराः ।संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ॥७३८॥स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् ।तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥७३९॥संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता ॥७४०॥नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति ।अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम् ॥७४१॥त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह ।संमिश्रय कारयेत्सीमां एवं धर्मविदो विदुः ॥७४२॥ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः ।तन्मूलत्वात्तु ते मौला ऋषिभिः संप्रकीर्तिताः ॥७४३॥निष्पाद्यमानं यैर्दृष्टं तत्कार्यं नृगुणान्वितैः ।वृद्धा वा यदि वावृद्धास्ते वृद्धाः परिकीर्तिताः ॥७४४॥उपश्रवणसंभोग कार्याख्यानोपचिह्निताः ।उद्धरन्ति ततो यस्मादुद्धृतास्ते ततः स्मृतः ॥७४५॥सामन्ताः साधनं पूर्वं अनिष्टोक्तौ गुणान्विताः ।द्विगुणास्तूत्तरा ज्ञेया ततोऽन्ये त्रिगुणा मताः ॥७४६॥एको यद्वन्नयेत्सीमां उभयोरीप्सितः क्वचित् ।मस्तके क्षितिं आरोप्य रक्तवासाः समाहिताः ॥७४७॥भयवर्जितभूपेन सर्वाभावे स्वयंकृता ॥७४८॥क्षेत्रकूपतडागानां केदारारामयोरपि ।गृहप्रासादावसथ नृपदेवगृहेषु च ॥७४९॥बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् ॥७५०॥सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।त्रिपक्षपक्षसप्ताहं दैवराजिकं इष्यते ॥७५१॥मेखलाभ्रमनिष्कास गवाक्षान्नोपरोधयेत् ।प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् ॥७५२॥निवेशसमयादूर्ध्वं नैते योज्याः कदाचन ।दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्ममु ॥७५३॥विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् ।अरत्निद्वयं उत्सृज्य परकुड्यान्निवेशयेत् ॥७५४॥सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।अनिरुद्धो यथाकालं राजमार्गः स उच्यते ॥७५५॥न तत्र रोपयेत्किंचिन्नोपहन्यात्तु केनचित् ।गुरुआचार्यनृपादीनां मार्गादानात्तु दण्डभाक् ॥७५६॥यस्तत्र संकरश्वभ्रान्वृक्षारोपणं एव च ।कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ॥७५७॥तटाकोद्यानतीर्थानि योऽमेध्येन विनाशयेत् ।अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् ॥७५८॥दूषयेत्सिद्धतीर्थानि स्थापितानि महात्मभिः ।पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् ॥७५९॥सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः ।फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥७६०॥अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः ।स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संश्रिताः ॥७६१॥अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः ।गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥७६२॥व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि ।अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम् ॥७६३॥अशक्तितो न दद्याच्चेत्खिलार्थो यत्कृतो व्ययः ।तदष्टभागहीनं तु कर्षकः फलं आप्नुयात् ।वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् ॥७६४॥अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् ॥७६५॥विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनराव्रजेत् ।शीलोपचारं तत्सर्वं दत्त्वा क्षेत्रमवाप्नुयात् ॥७६६॥तदष्टभागापचयाद्यावत्सप्त गताः समाः ।समाप्तेऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ॥७६७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP