संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| दण्डविधिः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - दण्डविधिः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः दण्डविधिः Translation - भाषांतर राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ॥४७७॥रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् ।वणिजः कर्षकांश्चापि शिल्पिनश्चाब्रवीद्भृगुः ॥४७८॥धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥४७९॥कर्षकान्क्षत्रविश्शूद्रान्समीहानांस्तु दापयेत् ॥४८०॥आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च ।एतेषां अपराधेषु दण्डो नैव विधीयते ॥४८१॥प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् ।दण्डस्तत्र तु नैव स्यादेष धर्मो भृगुस्मृतः ॥४८२॥न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।राष्ट्राच्चैनं बहिः कुर्यात्समग्रधनं अक्षतम् ॥४८३॥चतुर्णां अपि वर्णानां प्रायश्चित्तं अकुर्वताम् ।शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥४८४॥येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥४८५॥प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ॥४८६॥सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः ।तदर्धं योषितो दद्युर्वधे पुंसोऽङ्ग कर्तनम् ॥४८७॥नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यति ।प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् ॥४८८॥प्रोषितस्वामिका नारी प्रापिता यद्यपि ग्रहे ।तावत्सा बन्धने स्थाप्या यावत्प्रत्यागतः प्रभुः ॥४८९॥कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ॥४९०॥माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः ।अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् ॥४९१॥यत्रोक्तो माषकैर्दण्डो राजतं तत्र निर्दिशेत ।कृष्णलैश्चोक्तं एव स्यादुक्तदण्डविनिश्चयः ॥४९२॥माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।काकणी तु चतुर्भागा माषकस्य पणस्य च ॥४९३॥पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी ।कार्षापणोण्डिका ज्ञेयास्ताश्चतस्रस्तु धानकः ।ते द्वादश सुवर्णास्तु दीनारश्चित्रकः स्मृतः ॥४९४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP