संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
सम्भूयसमुत्थानम्

कात्यायनस्मृतिः - सम्भूयसमुत्थानम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


समवेतास्तु ये केचिच्शल्पिनो वणिजोऽपि वा ।
अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥६२४॥

भाण्डपिण्डव्ययोद्धार भारसारार्थवीक्षणम् ।
कुर्युस्तेऽव्यभिचारेण समयेन व्यवस्थिताः ॥६२५॥

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः ॥६२६॥

बहूनां संमतो यस्तु दद्यादेको धनं नरः ।
ऋणं च कारयेद्वापि सर्वैरेव कृतं भवेत् ॥६२७॥

ज्ञातिसंबन्धिसुहृदां ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥६२८॥

स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि ।
देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ॥६२९॥

समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
न च याचेत यः कश्चिल्लाभात्स परिहीयते ॥६३०॥

चोरतः सलिलादग्नेर्द्रव्यं यस्तु समाहरेत् ।
तस्यांशो दशमो देयः सर्ववादेष्वयं विधिः ॥६३१॥

शिक्षकाभिज्ञकुशला आचार्यश्चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान्हरेयुस्ते यथोत्तरम् ॥६३२॥

परराष्ट्राद्धनं यत्स्याच्चौरैः स्वाम्याज्ञयाहृतम् ।
राज्ञो दशांशं उद्धृत्य विभजेरन्यथाविधि ॥६३३॥

चोराणां मुख्यभूतस्तु चतुरोऽंशांस्ततो हरेत् ।
शूरोऽंशांस्त्रीन्समर्थो द्वौ शोषास्त्वेकैकं एव च ॥६३४॥

तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः ॥६३५॥

नर्तकानां एष एव धर्मः सद्भिरुदाहृतः ।
तालज्ञो लभते ह्यर्धं गायनास्तु समांशिनः ।
प्रमुखा द्व्यंशं अर्हन्ति सोऽयं संभूय कुर्वताम् ॥६३६॥

वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा ।
अनियम्यांशकर्तॄणां सर्वेषां एष निर्णयः ॥६३७॥
दत्तानपाकर्म दत्ताप्रदानिकं वा

विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः ।
दाराः पुत्राश्च सर्वस्वं आत्मनैव तु योजयेत् ॥६३८॥

आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥६३९॥

सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा ॥६४०॥

अतश्च सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ॥६४१॥

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् ॥६४२॥

प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।
कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते ॥६४३॥

अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥६४४॥

भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः ॥६४५॥

प्राणसंशयं आपन्नं यो मां उत्तारयेदितः ।
सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् ॥६४६॥

कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् ॥६४७॥

या तु कार्यस्य सिद्ध्यर्थं उत्कोचा स्यात्प्रतिश्रुता ।
तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन ॥६४८॥

अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् ।
दण्डं चैकादशगुणं आहुर्गार्गीयमानवाः ॥६४९॥

स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् ।
दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥६५०॥

प्राप्तं एतैस्तु यत्किंचित्तदुत्कोचाख्यं उच्यते ।
न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् ॥६५१॥

नियुक्तो यस्तु कार्येषु स चेदुत्कोचं आप्नुयात् ।
स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् ॥६५२॥

अनियुक्तस्तु कार्यार्थं उत्कोचं यं अवाप्नुयात् ।
कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते ॥६५३॥

स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥६५४॥

योगाधमनविक्रीतं योगदानपतिग्रहम् ।
यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥६५५॥

भृतावनिश्चितायां तु दशभागं अवाप्नुयात् ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥६५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP