संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| अभ्युपेत्याशुश्रूषा कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - अभ्युपेत्याशुश्रूषा स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः अभ्युपेत्याशुश्रूषा Translation - भाषांतर यस्तु न ग्राहयेच्शिल्पं कर्माण्यन्यानि कारयेत् ।प्राप्नुयात्साहसं पूर्वं तस्माच्शिष्यो निवर्तते ॥७१३॥शिक्षितोऽपि श्रितं कामं अन्तेवासी समाचरेत् ।तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥७१४॥स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवद्भृगुः ।त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ॥७१५॥वर्णानां अनुलाम्येन दास्यं न प्रतिलोमतः ।राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥७१६॥समवर्णोऽपि विप्रं तु दासत्वं नैव कारयेत् ।ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते ॥७१७॥क्षत्रविश्शूद्रधर्मस्तु समवर्णे कदाचन ।कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः ॥७१८॥शीलाध्ययनसंपन्ने तदूनं कर्म कामतः ।तत्रापि नाशुभं किंचित्प्रकुर्वीत द्विजोत्तमः ॥७१९॥विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् ।प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् ॥७२०॥प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः ।निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविड्नृपः ॥७२१॥शूद्रं तु कारयेद्दासं क्रीतं अक्रीतं एव वा ।दास्यायैव हि सृष्टः स स्वयं एव स्वयं भुवा ॥७२२॥स्वदासीं यस्तु संगच्छेत्प्रसूता च भवेत्ततः ।अवेक्ष्य बीजं कार्या स्यान्न दासी सान्वया तु सा ॥७२३॥दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः ।प्रकाशं विक्रयाद्यत्तु न स्वामी धनं अर्हति ॥७२४॥दासेनोढा स्वदासी या सापि दासीत्वं आप्नुयात् ।यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः ॥७२५॥आदद्याद्ब्राह्मणीं यस्तु चिक्रीणीत तथैव च ।राज्ञा तदकृतं कार्यं दण्ड्या स्युः सर्व एव ते ॥७२६॥कामात्तु संश्रितां यस्तु दासीं कुर्यात्कुलस्त्रियम् ।संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् ॥७२७॥बालधात्रीं अदासीं च दासीं इव भुनक्ति यः ।परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसम् ॥७२८॥विक्रोशमानां यो भक्तां दासीं विक्रेतुं इच्छति ।अनापदिस्थः शक्तः सन्प्राप्नुयाद्द्विशतं दमम् ॥७२९॥तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥७३०॥प्रव्रज्यावसितो दासो मोक्तव्यश्च न केनचित् ।अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ॥७३१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP