संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| स्तेयम् कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - स्तेयम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः स्तेयम् Translation - भाषांतर प्रच्छन्नं वा प्रकाशं वा निशायां अथ वा दिवा ।यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् ॥८१०॥अन्यहस्तात्परिभ्रष्टं अकामादुद्धृतं भुवि ।चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् ॥८११॥तुलामानप्रतिमान प्रतिरूपकलक्षितैः ।चरन्नलक्षितैर्वापि प्राप्नुयात्पूर्वसाहसम् ॥८१२॥गृहे तु मुषितं राजा चौरग्राहांस्तु दापयेत् ।आरक्षकांश्च दिक्पालान्यदि चौरो न लभ्यते ॥८१३॥ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ॥८१४॥स्वदेशे यस्य यत्किंचिद्धृतं देयं नृपेण तु ।गृह्णीयात्तत्स्वयं नष्टं प्राप्तं अन्विष्य पार्थिवः ॥८१५॥चौरैर्हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।तदभावे तु मूल्यं स्यादन्यथा किल्विषी नृपः ॥८१६॥लब्धेऽपि चौरे यदि तु मोषस्तस्मान्न लभ्यते ।दद्यात्तं अथ वा चौरं दापयेत्तु यथेष्टतः ॥८१७॥तस्मिंश्चेद्दाप्यमानानां भवेद्दोषे तु संशयः ।मुषितः शपथं दाप्यो बन्धुभिर्वा विशोधयेत् ॥८१८॥यस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना ।तच्शेषं आप्नुयात्तस्मात्प्रत्यये स्वामिना कृते ॥८१९॥स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः ।तेषां सर्वस्वं आदाय राजा शूले निवेशयेत् ॥८२०॥अचोराद्दापितं द्रव्यं चौरान्वेषणतत्परैः ।उपलब्धे लभेरंस्ते द्विगुणं तत्र दापयेत् ॥८२१॥येन येन परद्रोहं करोत्यङ्गेन तस्करः ।छिन्द्यादङ्गं नृपस्तस्य न करोति यथा पुनः ॥८२२ः१॥त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् ।खर्जूरबदरादीनां मुष्टिं गृह्णन्न दुष्यति ॥८२२ः२॥मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।गौतमानां अनिष्टं यत्प्राण्युच्छेदद्विगर्हितम् ॥८२३॥सहोढं असहोढं वा तत्त्वागमितसाहसम् ।प्रगृह्याच्छिन्नं आवेद्य सर्वस्वैर्विप्रयोजयेत् ॥८२४॥अयःसन्दानगुप्तास्तु मन्दभक्ता बलान्विताः ।कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः ॥८२५॥परदेशाद्धृतं द्रव्यं वैदेश्येन यदा भवेत् ।गृहीत्वा तस्य तद्द्रव्यं अदण्डं तं विसर्जयेत् ॥८२६॥चोराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् ॥८२७॥अविद्वान्याजको वा स्यात्प्रवक्ता चानवस्थितः ।तौ उभौ चोरदण्डेन विनीय स्थापयेत्पथि ॥८२८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP