TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
चतुश्‍चत्वारिशोऽध्यायः

कूर्मपुराणः - चतुश्‍चत्वारिशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


चतुश्‍चत्वारिशोऽध्यायः

प्राकृत प्रलयका वर्णन, शिवके विविध रुपों और विविध शक्तियोंका वर्णन, शिवकी आराधनाकी विधि, मुनियोंद्वारा कूर्मरुपधारी विष्णुकी स्तुति, कूर्मपुराणकी विषयानुक्रमणिकाका वर्णन, कूर्मपुराणकी फलश्रुति तथा इस पुराणकी वक्तृ श्रोतृपरम्पराका प्रतिपादन, महर्षि व्यास तथा नारायणकी वन्दनाके साथ पुराणकी पुर्णताका कथन.

कूर्म उवाच

अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम ।

प्राकृतं हि समासेन श्रृणुध्वं गदतो मम ॥१॥

गते पराधीद्वितये कालो लोकप्रकालनः ।

कालाग्निर्भस्मसात कर्तुं करोति निखिलं मतिम ॥२॥

स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।

दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम ॥३॥

तमाविश्य महादेवो भगवान्नीललोहितः ।

करोति लोकसंहारं भीषणं रुपमाश्रितः ॥४॥

प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः ।

निर्दहत्याखिलं लोकं सप्तसप्तिस्वरुपधृक ॥५॥

स दग्ध्वा सकलं सत्वमस्त्रं ब्रह्माशिरो महत ।

देवतानां शरीरेषु क्षिपत्यखिलदाहकम ॥६॥

दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।

एका सा साक्षिणी शम्भोस्तिष्ठते वैदिकी श्रुतिः ॥७॥

शिरः कपालैर्देवानां कृतस्त्रग्वरभुषणः ।

आदित्यचन्द्रादिगणैः पुरयन व्योममण्डलम ॥८॥

सहस्त्रनयनो देवः सहस्त्राकृतिरिश्वरः ।

सहस्त्रहस्तचरव्णः सहस्त्रार्चिर्महाभुजः ॥९॥

दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।

त्रिशुली कृत्तिवसनो योगमैश्वरमास्थितः ॥१०॥

पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम ।

करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥११॥

पीत्वा नृत्तामृतं देवी भर्तुः परममंगला ।

योगमास्थाय देवस्य देहमायाति शुलिनः ॥१२॥

संत्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक ।

ज्योतिः स्वभावं भगवान दग्ध्वा ब्रह्माण्डमन्डलम ॥१३॥

संस्थितेष्वथ देवेषु ब्रह्माविष्णुपिनाकिषु ।

गुणैरशेषैः पृथिवी विलयं याति वारिषु ॥१४॥

सवारितत्वं सगुणं ग्रसते हव्यवाहनः ।

तेजस्तु गुणसंयुक्तं वायौ संयति संक्षयम ॥१५॥

आकाशे सगुणो वायुः प्रलयं याति विश्‍वभृत ।

भुतादौ च तथाकाशं लीयते गुणसंयुतम ॥१६॥

इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम ।

वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः ॥१७॥

वैकारिकस्तैजसश्च भूतदिश्‍चेति सत्तमाः ।

त्रिविधोऽयमहंकारो महति प्रलयं व्रजेत ॥१८॥

महान्तमेभिः सहिंत ब्रह्माणमतितेजसम ।

अव्यक्तं जगतो योनिः संहरेदेकमव्ययम ॥१९॥

एवं सहृत्यं भूतानि तत्वानि च महेश्वरः ।

वियोजयति चान्योन्यं प्रधानं पुरुषं परम ॥२०॥

प्रधानपुंसोरजयोरेष संहार ईरितः ।

महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ॥२१॥

गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।

प्रधानं जगतो योनिर्मायतत्त्वमचेतनम ॥२२॥

कुटस्थश्चिन्मयो ह्मात्मा केवलः पंचविशंकः ।

गीयते मुनिभिः साक्षी महानेकः पितामहः ॥२३॥

एवं संहारकरणी शक्तिर्महेश्वरी ध्रुवा ।

प्रधानाद्यं विशेषान्तं दहेद रुद्र इति श्रुतिः ॥२४॥

योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम ।

आत्यन्तिकं चैव लयं विदधातीह शंकरः ॥२५॥

इत्येष भगवान रुद्रः संहारं कुरुते वशी ।

स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ॥२६॥

हिरण्यगर्भो भगवान जगत सदसदात्मकम ।

सृजेदशेषं प्रकृतेस्तन्मयः पंचविंशकः ॥२७॥

सर्वज्ञः सर्वगाः शान्ताः स्वात्मन्येव व्यवस्थिताः ।

शक्तयो ब्रह्माविष्णवीशा भुक्तिमुक्तिफलप्रदाः ॥२८॥

सर्वेश्वराः सर्वनद्याः शाश्वतानन्तभोगिनः ।

एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम ॥२९॥

अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्त्रशः ।

इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ॥३०॥

एकैकस्य सहस्त्रणि देहानां वै शतानि च ।

कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणा ॥३१॥

तां तां शक्ति समाधाय स्वयं देवो महेश्वरः ।

करोति देहान विविधान ग्रसते चैव लीलयाः ॥३२॥

इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ।

सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ॥३३॥

सर्वासामेव शक्तिनां ब्रह्माविष्णुमहेश्वराः ।

प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ॥३४॥

आद्यः परास्ताद भगवान परमात्मा सनातनः ।

गीयते सर्वशक्त्यात्मा शुलपाणिर्महेश्वरः ॥३५॥

एनमेके वदन्त्यग्निं नारायणमथापरे ।

इन्द्रमेके परे विश्‍वान ब्रह्माणमापरे जगुः ॥३६॥

ब्रह्माविष्णुवग्निवरुणाः सर्वे देवास्तथर्षयः ।

एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्तिताः ॥३७॥

यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम ।

तत तद रुपं समास्थाय प्रददति फलं शिवः ॥३८॥

तस्मादेकतरं भेदं समाश्रित्यापि शाश्‍वतम ।

आराधयन्महादेवं याति तत्परमम पदम ॥३९॥

किन्तुं देवं महादेव सर्वशक्ति सनातनम ।

आराधयेद वै गिरिशं सगुणं वाथ निर्गुणम ॥४०॥

मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ।

आरुरुक्षुस्तु सगुणं पूजयेत परमेश्वरम ॥४१॥

पिनकिनं त्रिनयनं जटिलं कृत्तवाससम ।

पद्मासनस्थं रुक्माभं चिन्तयेद वैदिकी श्रुतिः ॥४२॥

एष योगः समुद्धिष्टः सबीजो मुनिसत्तमाः ।

तस्मात सर्वान परित्यज्य देवान ब्रह्मापुरोगमान ।

आराधयेद विरुपाक्षमादिमध्यान्तसंस्थितम ॥४३॥

भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ।

तादृशं रुपमास्थाय समायात्यन्तिकः शिवम ॥४४॥

एष योगः समृद्दिष्टः सबीजोऽत्यन्तभावने ।

यथाविधि प्रकृर्वाणः प्राप्नुयादैश्वरं पदम ॥४५॥

अत्राप्यशक्तोऽथ हरं विष्णुं ब्रह्माणमर्चयेत ।

अथ चेदसमर्थः स्यात तत्रापि मुनिपुंगवाः ।

ततो वाय्वाग्निशक्रादीन पुजयेद भक्तिसंयुक्तः ॥४६॥

ये चान्ये भावने शुद्धे प्रागृक्ते भगवामिह ।

अथापि कथितो योगो निबीजश्च सबीजकः ॥४७॥

ज्ञानं तदुक्तं निर्बीजं पुर्वं हि भवतां मया ।

विष्णुं रुद्रं विरत्र्चिं स सबीजं भावयेद बुधः ।

अथवाग्न्यादिकान देवास्तंप्तरः संयतेन्द्रियः ॥४८॥

पुजयेत पुरुषं विष्णुं चतुर्मुर्तिधरं हरिम ।

अनादिनिधनं देवं वासुदेवं सनातनम ॥४९॥

नारायणं जगदयोनिमाकाशं परमं पदम ।

तल्लिंगधारीअ नियतं तदभक्तस्तदपाश्रयः ।

एष एव विधिब्राह्मो भावने चान्तिके मतः ॥५०॥

इत्येतत कथितं ज्ञानं भावनासंश्रयं परम ।

इन्द्रद्युम्राय मुनये कथितं यन्मया पुरा ॥५१॥

अव्यक्तात्मकमेवेद चेतनाचेतनं जगत ।

तदीश्वरः परं ब्रह्मा तस्माद ब्रह्मामयं जगत ॥५२॥

सुत उवाच

एतावदुक्त्वा भगवान विरराम जनार्दनः ।

तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम ॥५३॥

मुनय ऊचुः

नमस्ते कूर्मरुपाय विष्णवे परमात्मने ।

नारायणाय विश्‍वाय वासुदेवाय ते नमः ॥५४॥

नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।

माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥५५॥

सहस्त्रशिरसे तुभ्यं सहस्त्राक्षायं ते नमः ।

नमः सहस्त्रहस्ताय सहस्त्रचरणाय च ॥५६॥

ॐ नमो ज्ञानरुपाय परमात्मस्वरुपिणे ।

आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥५७॥

नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।

पुरुषाय पुराणाय सत्तामात्रस्वरुपिणे ॥५८॥

नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।

धर्मज्ञानाधिगम्याय निष्कालाय नमो नमः ॥५९॥

नमोऽस्तु व्योमतत्त्वाय महायोगेश्वराय च ।

परावराणां प्रभवे वेदवेद्याय ते नमः ॥६०॥

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।

नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥६१॥

नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।

वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥६२॥

नमोऽस्तु कालरुद्राय कालरुपाय ते नमः ।

स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ॥६३॥

नमो योगधिगम्याय योगिने योगदायिने ।

देवानां पतये तुभ्यं देवार्तिशमनाय ते ॥६४॥

भगवंत्स्वत्प्रसादेन सर्वसंसारनाशनम ।

अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्‍नुते ॥६५॥

श्रुतास्तु विविधां धर्मा वंशा मन्वन्तराणि च ।

सर्गश्च प्रतिसर्गच ब्रह्माण्दस्यास्य विस्तरः ॥६६॥

त्वं हि सर्वजगत्साक्षी विष्णो नारायणः परः ।

त्रातुमर्हस्यनन्तात्मंस्त्वमेव शरणं गतिः ॥६७॥

सुत उवाच

एतद वः कथितं विप्रा योगमोक्षप्रदायकम ।

कौर्मंक पुराणमखिलं यज्जगाद गदाधरः ॥६८॥

अस्मिन पुराणे लक्ष्यास्तु सम्भवः कथितः पुरा ।

मोहायाशेषभुतानां वासुदेवेन योजनम ॥६९॥

प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ।

धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम ॥७०॥

पितामहस्य विष्णोश्च महेशस्य च धीमतः ।

एकत्वं च पृथक्त्वं च विशेषश्‍चोपवर्णितः ॥७१॥

भक्तानां लक्षणं प्रोक्तं समाचारश्‍च शोभनः ।

वर्णाश्रमाणां कथितं यथावदिह लक्षणम ॥७२॥

आदिसर्गस्ततः पश्चादण्डावरणसप्तकम ।

हिरणगर्भसर्गश्च कीर्तितो मुनिपुंगवाः ॥७३॥

कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ।

ब्रह्माणः शयनं चाप्सु नामनिर्वचनं तथा ॥७४॥

वराहवपुषा भूयो भुमेरुद्धरणं पुनः ।

मुख्यादिसर्गकथनंक मुनिसर्गस्तथापरः ॥७५॥

व्याख्यातो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ।

धर्मस्य च प्रजासर्गस्तामसात पूर्वमेव तु ॥७६॥

ब्रह्माविष्णुविवाद स्यादन्तर्देहप्रवेशनम ।

पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ॥७७॥

दर्शन च महेशस्य माहात्म्यं विष्णुनेरितम ।

दिव्यदृष्टिप्रदानं च ब्रह्माणः परमेष्ठिनः ॥७८॥

संस्तवो देवदेवस्य ब्रह्माणा परमेष्ठिना ।

प्रसादो गिरिशस्याथ वरदानं तथैव च ॥७९॥

संवादो विष्णुना सार्धं शंकरस्य महात्मनः ।

वरदानं तथापुर्वमन्तधानं पिनाकिनः ॥८०॥

वधश्‍च कथितो विप्रा मधुकैटभयोः पुरा ।

अवतारोऽथ देवस्य ब्रह्माणो नाभिपंकजात ॥८१॥

एकीभावश्‍च देवस्य विष्णुनां कथितस्ततः ।

विमोहो ब्रह्माणश्‍चाथ संज्ञालाभो हरेस्ततः ॥८२॥

तपश्‍चरणमाख्यातं देवदेवस्य धीमतः ।

प्रादुर्भावो महेश्स्य ललाटात कथितस्ततः ॥८३॥

रुद्राणां कथिता सृष्टिब्रह्माणः प्रतिषेधनम ।

भूतिश्‍च देवदेवस्य वरदानोपरदेशकौ ॥८४॥

अन्तर्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ।

दर्शनं देवदेवस्य नरनारीशरीरता ॥८५॥

देव्या विभागकथनं देवदेवात पिनाकिनः ।

देव्यास्तु पश्‍चात कथितं दक्षपुत्रीत्वमेव च ॥८६॥

हिमवदुदुहितृत्वं च देव्या माहात्म्यमेव च ।

दर्शनं दिव्यरुपस्य वैश्यरुपस्य दर्शनम ॥८७॥

नाम्रा सहस्त्रं कथितं पित्रा हिमवता स्वयम ।

उपदेशो महादेव्या वरदानवं तथैव च ॥८८॥

भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ।

प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम ॥८९॥

दधीचस्य च दक्षस्य विवादः कथितस्तदा ।

ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ॥९०॥

रुद्रागतिः प्रसादश्‍च अन्तर्धानं पिनाकिनः ।

पितामहस्योपदेशः कीर्त्यते रक्षणाय तु ॥९१॥

दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ।

हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ॥९२॥

ततश्च शापः कथितो देवदारुवनौकसाम ।

निग्रहश्‍चान्धकस्याथ गाणपत्यमनुत्तमम ॥९३॥

प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ।

बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ॥९४॥

ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्तिताः ।

वसुदेवात ततो विष्णोरुप्तत्तिः स्वेच्छया हरेः ॥९५॥

दर्शनं चोपमन्योर्वै तपश्चरमेव च ।

वरलाभो,महादेवं दृष्टा साम्बं त्रिलोचनम ॥९६॥

कैलासगमनं चाथ निवासस्तत्र शागिंणः ।

ततश्च कथ्यते भीतिर्द्वारवत्या निवासिनाम ॥९७॥

रक्षणं गरुडेनाथ जित्वा शत्रुन महाबलान ।

नारदागमनं चैव यात्रा चैव गरुत्मतः ॥९८॥

ततश्च कृष्णागमनं मुनीनामागतिस्ततः ।

नैत्यकं वासुदेवस्य शिवलिंगर्चनं तथा ॥९९॥

मार्कण्डेयस्य च मुनेः प्रश्‍नः प्रोक्तस्ततः परम ।

लिंगर्चननिमित्तं च लिंगस्यापि सलिंगिनः ॥१००॥

याथात्म्यकथनं चाथ लिंगाविर्भाव एव च ।

ब्रह्माविष्णोस्तथा मध्ये कीर्तितो मुनिपुंगवाः ॥१०१॥

मोहस्तयोस्तु कथितो गमनं चोर्ध्वतोऽप्यधः ।

संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ॥१०२॥

अन्तर्धानं च लिंगस्य साम्बोप्तत्तिस्ततः परम ।

कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ॥१०३॥

कृष्णस्य गमने बुद्धिऋषीणामागतिस्तथा ।

अनुशासितं च कृष्णेन वरदानं महात्मनः ॥१०४॥

गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम ।

कृष्णाद्वैपायनस्योक्ता युगधर्माः सनातनाः ॥१०५॥

अनुग्रहोऽथ पार्थस्य वाराणसीगतिस्ततः ।

पाराशर्यस्य च मुनेर्व्यासस्यादभुतकर्मणः ॥१०६॥

वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम ।

तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम ।

उद्वासन च कथितं वरदान तथैव च ॥१०७॥

प्रयागस्य च माहात्म्यं क्षेत्रानामथ कीर्तनम ।

फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥१०८॥

भुवनानां स्वरुपं च ज्योतिषां च निवेशनम ।

कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥१०९॥

पर्वतानां च कथनं स्थानानि च दिवौकसाम ।

द्वीपाना प्रविभागश्च श्‍वेतद्वीपोपवर्णनमः ॥११०॥

शयनं केशवस्याथ माहात्म्यं च महात्मनः ।

मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥१११॥

वेदशाखाप्रणयनं व्यासानां कथनं ततः ।

अवेदस्य च वेदानां कथनं मुनिपुंगवाः ॥११२॥

योगेश्वराणां च कथा शिष्याणांचाथ कीर्तनाम ।

गीताश्च विविधा गुह्मा ईश्वरस्याथ कीर्तिताः ॥११३॥

वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।

कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥११४॥

पतिव्रतायाश्चाख्यानं तीर्थानां च वनिर्णयः ।

तथा मंकणकस्याथ निग्रहः कीर्त्यते द्विजाः ॥११५॥

वधश्च कथितो विप्राः कालस्य च समासतः ।

देवदारुवने शम्भोः प्रवेशो माधवस्य च ॥११६॥

दर्शनं षटकुलीयानां देवदेवस्य धीमत ।

वरदानं च देवस्य नन्दिने तु प्रकीर्तितम ॥११७॥

नैमित्तिकस्तु कथितः प्रतिसर्गस्ततः परम ।

प्राकृतः प्रलयश्चोर्ध्वं सबीजो योग एव च ॥११८॥

एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत तु यः ।

सर्वपापविनिर्मुक्तो ब्रह्मालोके महीयते ॥११९॥

एवमुक्त्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।

संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥१२०॥

देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।

प्रणस्य पुरुषं विष्णुं गृहीत्वा ह्ममृतं द्विजाः ॥१२१॥

एतत पुराणं परमं भाषितं कूर्मरुपिणा ।

साक्षाद देवादिदेवेन विष्णुना विश्‍वयोनिना ॥१२२॥

यः पठेत सततं मर्त्यो नियमेन समाहितः ।

सर्वपापविनिर्मुक्तो ब्रह्मालोके महीयते ॥१२३॥

लिखित्वा चैव यो दद्याद वैशाखे मासि सुव्रतः ।

विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥१२४॥

सर्वपापविनिर्मुक्तः सर्वेश्वर्यसमन्वितः ।

भुक्त्वाच विपुलान स्वर्गे भोगान दिव्यान सुशोभनान ॥१२५॥

ततः स्वर्गात परिभ्रष्टो विप्राणां जायते कुले ।

पुर्वसंस्कारमाहात्म्याद ब्रह्माविद्यामवाप्नुयात ॥१२६॥

पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।

योऽर्थ विचारयेत सम्यक स प्राप्नोति परं पदम ॥१२७॥

अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।

श्रोतव्यं च द्विजश्रेष्टा महापातकनाशनम ॥१२८॥

एकतस्तु पुराणानि सेतिहासानि कृत्स्नशवः ।

एकत्र चेदं परममेतदेवातिरिच्यते ॥१२९॥

धर्मनैपुण्यकामानां ज्ञाननैपुण्यकामिनाम ।

इदं पुराणं मुक्त्वैक नास्त्यन्यत साधनं परम ॥१३०॥

यथावदत्र भगवान देवो नारायणो हरिः ।

कथ्यते हि यथा विष्णुनं तथान्येषु सुव्रताः ॥१३१॥

ब्राह्मी पौराणिकी चेयं संहिता पापनाशिनी ।

अत्र तत परमं ब्रह्मा कीर्त्यते हि यथार्थतः ॥१३२॥

तीर्थानां परमं तीर्थ तपसां च परं तपः ।

ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम ॥१३३॥

नाध्येतव्यमिदं शास्त्रं वृषलस्य च संनिधौ ।

योऽधीते स तु मोहात्मा स याति नरकान बहून ॥१३४॥

श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ।

यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम ॥१३५॥

मुमुक्षुणामिदं शास्त्रमध्येतव्यं विशेषतः ।

श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम ॥१३६॥

ज्ञात्वा यथावद विप्रेन्द्रान श्रावयेद भक्तिसंयुतान ।

सर्वपापविनिमुक्तो ब्रह्मासायुज्यमाप्नुयात ॥१३७॥

योऽश्रद्धधाने पुरुषे दध्याच्चाधार्मिके तथा ।

स प्रेत्य गत्वा निरयान शुनां योनिं व्रजत्यधः ॥१३८॥

नमस्कृत्वा हरिं विष्णुं जगद्योनिं सनातनम ।

अध्येतव्यामिदं शास्त्रं कृष्णाद्वैपायनं तथा ॥१३९॥

इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ।

पाराशर्यस्य विप्रर्षर्व्यासस्य च महात्मनः ॥१४०॥

श्रुत्वा नारायणाद दिव्यां नारदो भगवानृषिः ।

गौतमाय ददौ पुर्व तस्माच्चैव पराशरः ॥१४१॥

पराशरोऽपि भगवान गंगाद्वारे मुनीश्वराः ।

मनिभ्यः कथयामास धर्मकामार्थमोक्षदम ॥१४२॥

ब्रह्माणा कथितं पुर्वं सनकाय च धीमते ।

सनत्कुमाराय तथा सर्वपापप्रणाशनम ॥१४३॥

सनकाद भगवान साक्षाद देवलो योगवित्तमः ।

आवाप्तवान पंचशिखो देवलादिदमुत्तमम ॥१४४॥

सनत्कुमाराद भगवान मुनिः सत्यवतीसुतः ।

लेभे पुराणं परमं व्यासः सर्वार्थसंचयम ॥१४५॥

तस्माद व्यासादहं श्रुत्वां पापनाशनम ।

ऊचिवान वै भवद्भिश्च दातव्यं धार्मिके जने ॥१४६॥

तस्मै व्यासाय गुरवे सर्वज्ञाय महर्षये ।

पाराशर्याय शान्ताय नमो नारायणात्मने ॥१४७॥

यस्मात संजायते कृत्स्नं यत्र चैवं प्रलीयते ।

नमस्तस्मै सुरेशाय विष्णवे कूर्मरुपिणे ॥१४८॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे चतुश्‍चत्वारिशोऽध्यायः ॥४४॥

( उपरिविभागः समाप्त )

॥ इति श्रीकूर्मपुराणं समाप्तम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2010-04-17T04:57:26.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कंचें

  • सना . कोणता , कोणतीं , कोणतें ? प्रश्नार्थक . ' ह्रांतुन कंचा मागून घ्यावा . '- ऐपो ३३ . ( कोणचा अप ) 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site